________________
१७
पर्युषणातिथिविनिश्चयः ॥ सांवत्सरिकाहोरात्रसम्बन्धिरात्र्यपेक्षयैवाऽनागतत्वस्येष्टत्वादिति ।
अथानन्तरत्वमिति द्वितीयपक्षोऽभीष्टः । तथा हि-'अणागय चउत्थीए' इत्यत्रानागतत्वं नागामित्वरूपं किन्त्वनन्तरत्वरूपम् । तच्चाव्यवहितत्वमेव । तत्पुनः भाद्रशुक्लपञ्चमीदिनापेक्षयैव बोध्यम् । तस्य च पूर्वोत्तरकालापेक्षया द्वैविध्येनोत्तरदिने षष्ठ्यामपि सद्भावः, पूर्वदिने चतुर्थ्यामपि च सद्भावः, नान्यत्र । तृतीयासप्तम्योः पञ्चम्यपेक्षयाव्यवहितत्वात् । तत्रापि 'ण वट्टइ अइक्कमिउ' इत्यनेन षष्ठ्या निषिद्धत्वेन चतुर्थीगतमेव तद्ग्राह्यमिति नाऽसम्भवः, न वा तद्वैयर्थ्यम् । तृतीयादेर्व्यवहितत्वेनाऽनन्तरत्वाभावात्तृतीयादिव्यवच्छेदकतयैव तस्य सार्थक्यात् । एवं प्रागुपदर्शिताऽऽवश्यकचूादावपि 'अणागयं' इत्यत्रानन्तरत्वरूपमेवाऽनागतत्वम् । इत्थमेव च तत्र 'पुवि' इति विशेषणस्यापि सार्थकत्वम् । अनन्तरत्वस्य सांवत्सरिकदिनरात्र्युत्तरदिनरात्रावपि सत्त्वेन तद्व्यवच्छेदकत्वादिति चेत् ।
तदाहि 'अणागयचउत्थीए' इतिवचनेनौदयिकभाद्रशुक्लपञ्चमीदिनात् प्रागनन्तरदिनतयैव चतुर्थीदिने पर्वरूपा पर्युषणा श्रीकालिकाचार्यभगवता प्रतितेति सिद्धमिति, प्रागनन्तरदिनत्वस्यैव तत्र प्रयोजकत्वं प्राप्तं न तु चतुर्थीदिनत्वस्य । तथा च टिप्पनके भाद्रशुक्लपञ्चमीवृद्धावप्यौदयिकपञ्चमीदिनात्मकटिप्पनकोक्तद्वितीयपञ्चमीदिनादनन्तरदिन एव पर्युषणा प्रासेति अस्मिन् वर्षेऽपि विवादापन्ने गुरुवासर एव सा युक्ता । तत्रैव दिने आराध्यरूपौदयिकपञ्चमीदिनात् प्रागनन्तरदिनत्वसत्त्वादिति त्वयाऽस्माकमेव पन्था विशदीकृतः ।
न च तत्र चतुर्थीदिनत्वेनैव प्रयोजकत्वं, न तु प्रागनन्तरदिनत्वेनेति युक्तम् । अनन्तरार्थक अणागय' इत्यस्य वैयर्थ्यापत्तेः । तृतीयादिनस्य प्रयोजकात्मकचतुर्थीदिनत्वाभावेनैव व्यवच्छेदात् । अत एव प्रागनन्तरदिनत्वे सति चतुर्थीदिनत्वेनैव तत्र प्रयोजकत्वमित्यपि न युक्तम् । प्रागनन्तरदिनत्वस्य चतुर्थीदिन एव सत्त्वेन तद्व्यवच्छेद्यान्तराभावेन वैयर्थ्यापत्तेस्तादवस्थ्यात् । टिप्पनके भाद्रशुक्लपञ्चमीवृद्धौ टिप्पनकोक्तचतुर्थीदिने पर्युषणादिनतया त्वदभिमते तदभावाच्च । तस्याऽऽरा-ध्यरूपौदयिकपञ्चमीदिनव्यवहितदिनत्वेन प्रागनन्तरदिनत्वाभावात् । प्रत्युत शास्त्राबाधित-शास्त्रानुसारिप्रागुपदर्शिताविच्छिन्नसुविहितपरम्परया टिप्पनकोक्तभाद्रशुक्लप्रथमपञ्चमीदिन एव पर्वाराधनायामौदयिकचतुर्थीदिनत्वेनैव गणनीये प्रागनन्तरत्वे सति चतुर्थीदिनत्वस्य सत्त्वादस्मिन् वर्षेऽपि विवादापन्ने गुरुवासर एव पर्युषणाकर्त्तव्यताया युक्तत्वसिद्धेश्च ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org