________________
९६
ग्रन्थत्रयी
इति प्रागुपदशित श्रीनिशीथचूर्णिवचने 'प्रतिपत्' शब्दस्याऽपि न प्रतिपद्दिनपरत्वमेव व्याख्येयम् । तथा सति सर्वदाऽप्युत्तरपारणकस्य प्रतिपद्दिन एव कर्त्तव्यतापत्तेः । न चैतदिष्टं तवापि । भाद्रशुक्ल तृतीयादिवृद्धौ तवापि दितीयादिन एवोत्तरपारणकस्येष्टत्वात् । तृतीयादिक्षये चाऽमावास्यायामेव तस्येष्टत्वात् । किन्तु शक्यलक्ष्योभयवृत्तिधर्मावच्छिन्नविषयकलक्षणात्मकाऽजहल्लक्षणारूपयाऽर्थान्तरसङ्क्रमितवाच्यया पर्युषणाष्टमाव्यवहितपूर्वदिनपरत्वमेव तत्र 'प्रतिपत्' शब्दस्य व्याख्येयम् । तदुद्देशेनैव तत्र 'प्रतिपत्'शब्दस्य प्रवृत्तेः ।
न च तत्र तृतीयादिक्षय-वृद्ध्यभावापेक्षयैव प्रतिपच्छब्दस्य प्रयोग इति वाच्यम् । 'चउत्थी पत्तिया' इत्यत्रापि पञ्चमीक्षय वृद्ध्यभावापेक्षयैव चतुर्थीशब्दस्य प्रयोग इत्यस्यापि सुवचत्वात् । इत्थमप्यस्माकमेव सिद्धान्तो व्यवतिष्ठते । किञ्च 'अणागयचउत्थीए' इत्यत्र निशीथचूर्णौ किं नामऽनागतत्वम् ? किमागामित्वम्, किं वाऽनन्तरत्वम्, किं वाऽनतिक्रान्तत्वम् ?
न तावदागामित्वम् । तद्धि किं नृपविज्ञप्तिदिनापेक्षया वा, किं वा पर्वरूपभाद्रशुक्लपञ्चमीदिनापेक्षया वा ? |
नाद्यः । आगामित्वं हि भविष्यत्त्वम् । तच्च वर्त्तमानकालीनप्रागभावप्रतियोगित्वमेव । तत्तु नृपविज्ञप्तिदिवसापेक्षया यथा चतुर्थीदिने तथा तृतीयादिनेऽपि वर्त्तते । इति विशेषाभावेन व्यवच्छेद्याभावात् तद्विशेषणस्य वैयर्थ्यम् । 'सम्भवव्यभिचाराभ्यां स्याद्विशेषणमर्थव 'दिति नियमात् ।
न द्वितीय: । असम्भवात् । भाद्रशुक्लपञ्चमीदिनापेक्षयाऽनागतत्वस्य षष्ठ्यादावेव सत्त्वेन चतुर्थ्यां तदभावात् । पञ्चमीदिनापेक्षयाऽनागतत्वं हि पञ्चमीदिनवृत्तिप्रागभावप्रतियोगित्वमेव । तच्च चतुर्थीदिने नास्त्येव । तत्र पञ्चमीदिनवृत्तिध्वंसप्रतियोगित्वस्यैव सत्त्वात् ।
एवं - 'संवच्छरिए आवासए कए पज्जोसवणाकप्पो कडिज्जइ । पुव्वि चेव अणागयं पंचरतं सव्वसाहूणं सुणिताणं कड्डिज्जइ कहिज्जइ य त्ति ।' इति आवश्यकचूर्णी; एवं - 'संवच्छरिए आवस्सए कए पाओसिए पज्जोसवणाकप्पो कडिज्जइ । सो पुण पुव्वि च अणागयं पंचरत्तं कड्डिज्जइ य । एसा सामायारी त्ति ।' इति आवश्यकबृहद्वृत्तौ च। ‘अणागयं पंचरत्तं' इत्यत्रापि पञ्चसु रात्रिषु तादृशानागतत्वस्याऽसम्भव एव । तत्रापि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org