________________
पर्युषणातिथिविनिश्चयः ॥
९५
धिकारप्रतिबद्धत्वेन समानविषयकत्वात् । अन्यथा 'ताहे चउत्थीए पज्जोसवियं । एवं जुगप्पहाणेहिं कारणे चउत्थो पवत्तिया । सा चेव अणुमया सव्वसाहूण' मिति तत्रैवोक्तस्य पर्वरूपपर्युषणाविषयकस्य चतुर्थीविधानस्यानुपपत्तेः ।
न च तत्र चतुर्थीविधानस्याऽऽगमवचननिरपेक्षत्वमिति वाच्यम् ।
'जं कारणेण भणियं आरेण वि पज्जुसवियव्व' मित्यादिनाऽऽगमवचनसापेक्षत्वस्यैव तस्योक्तत्वात् । अन्यथा शालिवाहननृपविज्ञप्त्याऽऽगमवचननिरपेक्षस्य षष्ठीविधानस्यैव तत्राऽऽपत्तेर्दुरुद्धरत्वात् ।
इत्थं च समानविषयकत्वादेव तत्र 'नो से कप्पइ तं रयणि उवायणावित्तए' इति वचनस्य 'तत्रैव कल्पते' इति नियमतात्पर्यकस्य पर्वरूपपर्युषणाविषये उत्सर्गवचनत्वम्। ‘अंतरा वि य से कप्पइ' इति वचनस्य चापवादवचनत्वम् । उत्सर्गापवादोभयमूर्त्तिकस्यैव सूत्रस्य सम्पूर्णार्थप्रापकत्वात् । अत एव च परिपूर्णार्थप्रापकलक्षणं अर्थांशप्रापकत्वलक्षणलौकिकप्रामाण्यविलक्षण मलौकिकप्रामाण्यमुपपद्यते इति ।
एवं 'जं कारणेण भणियं आरेण वि पज्जुसवियव्वं' इति पुष्पमालावृत्तिवचनेन "अर्वागपि यतः पर्युषणं कार्यमिति श्रुतिः " ॥ इति प्रागुक्त श्रीकालिकसूरिप्रबन्धवचनेन च स्पष्टमेवोक्तं 'अंतरा वि य से कप्पइ' इति वचनस्य पर्वरूपपर्युषणाविषयकत्वम् । तत्र पर्युषणाशब्दस्य पर्वरूपपर्युषणापरत्वात् । 'आरेणवि' 'अर्वागपि' इत्यादि वचनस्यापि तत्र 'अंतरा वि य से कप्पइ' इत्यस्यैवानुवादकत्वात् । तथा च 'अंतरा वि य से कप्पर' इत्यस्यापि पर्वरूपपर्युषणाविषयकत्वसिद्धौ तत्र प्रागुक्तरीत्याऽन्तराशब्दस्याऽव्यवहितपूर्वार्थकत्वे नानुपपत्तिलेशोऽपीति ।
अव्यवहितपूर्वत्वं चात्राऽऽराध्यात्मकौदयिकभाद्रशुक्लपञ्चमीदिनादव्यवहितपूर्वदिनत्वं बोध्यम् । सावधिकभावानामवधिज्ञानव्यङ्ग्यत्वनियमात् । उक्तपञ्चमीदिनस्यैव च तत्राऽवधित्वादिति ।
इत्थं च टिप्पनके भाद्रशुक्लपञ्चम्यां क्षये वृद्धौ वा भाद्रशुक्लचतुर्थ्याः क्षये वृद्धौ वाऽऽराधनायां न कुत्राऽपि काऽप्यनुपपत्तिः । भगवत् श्रीकालिकाचार्यादनु सर्वदाप्याराध्यभाद्रशुक्लपञ्चमीदिनाव्यवहितपूर्वदिनत्वेनैव श्रीपर्युषणापर्वकर्त्तव्यता
प्रयोजकत्वादिति ।
इत्थमेव च 'पज्जोसवणाए 'अट्ठमं' ति काउं पाडिवयाए उत्तरपारणयं च भवइ'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org