SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ ९४ ग्रन्थत्रयी इत्थं च वार्षिकपर्वरूपपर्युषणायाः प्रागुक्ता अनैयत्यापत्तिरपि न स्यात् । पञ्चमीदिनाव्यवहितपूर्वदिनात्मकनियतदिनप्रतिबद्धत्वादेव तस्या इति । ___ न चोक्तवचनेषु पर्युषणाशब्दस्य गृहिज्ञातावस्थानरूपपर्युषणार्थकत्वमपीति वाच्यम्। इष्टापत्तेः । गृहिज्ञातमात्रार्थकत्वाभावात् । गृहिज्ञाताया एव पर्युषणायाः सांवत्सरिककृत्यविशिष्टायाः पर्वरूपपर्युषणात्वोक्तेश्च । __अत एव च तत्र-"परि-सामस्त्येन उषणं-वसनं पर्युषणा । सा द्वेधा गृहस्थैर्शाता अज्ञाता च । तत्र गृहस्थैर्शाता-यस्यां वर्षायोग्यपीठफलकादौ प्राप्ते कल्पोक्तद्रव्य-क्षेत्रकाल-भाव-स्थापना क्रियते । सा चाऽऽषाढपूर्णिमायाम् । योग्यक्षेत्राभावे तु पञ्चपञ्च दिनवृद्ध्या दशपर्वतिथिक्रमेण यावत् श्रावणकृष्णपञ्चदश्यामेव । गृहिज्ञाता तु द्वेधासांवत्सरिककृत्यविशिष्टा गृहिज्ञातमात्रा चे"त्येवं तत्र तत्र विवरणमपि सङ्गच्छते । इत्थं च पर्युषणाशब्दः सामान्यतो व्यर्थः । क्वापि वर्षाकालावस्थानरूपपर्युषणार्थकः, क्वपि च वार्षिककृत्यविशिष्टपर्वरूपपर्युषणार्थक इति सिद्धम् । इत्यलं प्रसङ्गेन । तथा चाऽवस्थानपर्युषणाविषयेऽन्तराशब्दस्य व्यवहितपूर्वार्थकत्वेऽपि पर्वरूपपर्युषणाविषये तस्याऽव्यवहितपूर्वार्थकत्वमेवेति ध्येयम् । न च तथापि 'अंतरा वि य से कप्पइ, नो से कप्पइ तं रयणि उवायणावित्तए' इतिसूत्रस्य वर्षाकालावस्थानरूपपर्युषणाविषयकत्वेऽपि वार्षिकपर्वरूपपर्युषणाविषयकत्वमेव नास्तीति तद्विषये नाऽन्तराशब्दस्याऽव्यवहितपूर्वार्थकत्वसिद्धिरिति वाच्यम्। उक्तसूत्रस्य वार्षिकपर्वरूपपर्युषणाविषयकत्वाभावे प्रमाणाभावात् । प्रत्युत तेन युगप्रधानेन भगवताऽऽगमवचनसापेक्षविहितस्य 'तो छट्ठीए पज्जोसवणा किज्जउ। आयरिएण भणियं-ण वट्टइ अइक्कमिउ' इति श्रीनिशीथचूाद्युक्तस्य वार्षिकपर्वरूपपर्युषणाविषयकस्य षष्ठीनिषेधस्यान्यथानुपपत्तेरेव 'अंतरे'ति सूत्रस्य वार्षिकपर्वरूपपर्युषणाविषयकत्वे प्रमाणत्वात् । ___ न च 'नो से कप्पइ तं रयणि उवायणावित्तए' इति वचनस्यैव पर्वरूपपर्युषणाविषयकत्वं न तु 'अंतरा वि य से कप्पई' इति वचनस्यापि । एवमप्यागमवचनसापेक्षषष्ठीनिषेधकरणानुपपत्तेरभावादिति वाच्यम् । तयोर्द्वयोरपि वचनयोर्बुद्धिस्थत्वोपलक्षिततत्तद्धर्मावच्छिाशक्त से'पदवाच्यैका Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001472
Book TitleGranthtrai
Original Sutra AuthorVijayanandsuri
AuthorShilchandrasuri
PublisherJain Granth Prakashan Samiti
Publication Year1999
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy