________________
पर्युषणातिथिविनिश्चयः ॥
ततो यतिद्वयं तत्र प्रैषि सङ्घाय सूरिभिः । प्राप्तेष्वस्मासु कर्त्तव्यं पर्वपर्युषणाभिधम् ॥ २ ॥ तौ तत्र सङ्गतौ सङ्घ-मानितौ वाचिकं गुरोः । तत्राऽकथयतां मेने तेनैतत्परया मुदा ॥ ३ ॥
श्रीकालकप्रभुः प्राप शनैस्तं नगरं ततः । श्रीसातवाहनस्तस्य प्रवेशोत्सवमातनोत् ॥ ४ ॥ उपपर्युषणं तत्र राजा व्यज्ञपयद् गुरुम् । अत्र देशे प्रभो ! भावी शक्रध्वजमहोत्सवः ॥ ५ ॥ नभस्यशुक्लपञ्चम्यां ततः षष्ठ्यां विधीयताम् । स्वं पर्व नैकचित्तत्वं धर्मे नो लोकपर्वणि ॥ ६ ॥ प्रभुराह प्रजापाल ! पुराऽर्हद्गणभृद्गणः । पञ्चमीं नात्यगादेतत् पर्वाऽस्मद्गुरुगीरिति ॥ ७ ॥ कम्पते मेरुचूलापि रविर्वा पश्चिमोदयः । नातिक्रमति पर्वेदं पञ्चमीरजनीं ध्रुवम् ॥ ८ ॥ राजाऽवदच्चतुर्थ्यां तत् पर्वपर्युषणं ततः । इत्थमस्तु गुरुः प्राह पूर्वैरप्याहतं ह्यदः ॥ ९ ॥
अर्वागपि यतः पर्यु- षणं कार्यमिति श्रुतिः । महीनाथस्ततः प्राह हर्षादेतत् प्रियं प्रियाम् ॥ १० ॥ यतः कुहूदिने पर्वोपवासे पौषधस्थिताः । अन्तःपुरपुरन्ध्यो मे पक्षादौ पारणाकृतः ॥ ११ ॥
तत्राष्टमं विधातॄणां निर्ग्रन्थानां महात्मनाम् । भवतु प्रासुकाहारै: श्रेष्ठमुत्तरपारणाम् ॥ १२ ॥ उवाच प्रभुरप्येतन्महादानानि पञ्च यत् । निस्तारयन्ति दत्तानि जीवं दुष्कर्मसागरात् ॥ १३ ॥ पथश्रान्ते तथा ग्लाने कृतलोचे बहुश्रुते । दानं महाफलं दत्तं तथा चोत्तरपारणे ॥ १४ ॥
ततः प्रभृति पञ्चम्या -श्चतुर्थ्यामागतं ह्यदः । कषायोपशमे हेतुः पर्व सांवत्सरं महत् ॥ १५ ॥ इति ॥
Jain Education International
For Private & Personal Use Only
९३
www.jainelibrary.org