SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ ११८ ग्रन्थत्रयी उच्चरिता तस्य पर्युषणाष्टमतपश्चिकीर्षोर्मुख्यवृत्त्या तृतीयात एवाष्टमकरणानुशासनं श्रीहीरप्रश्नोत्तरे विहितम् । यदुक्तम् - 'येन शुक्लपञ्चमी उच्चरिता भवति स यदि पर्युषणायां द्वितीयातोऽष्टमं करोति तदैकान्तेन पञ्चम्यामेकाशनं करोति उत यथारुच्या ? इति प्रश्नः । अत्रोत्तरम्-येन शुक्लपञ्चम्युच्चरिता भवति तेन मुख्यवृत्त्या तृतीयातोऽष्टम: कार्यः । अथ कदाचिद द्वितीयातः करोति तदा पञ्चम्यामेकाशनकरणप्रतिबन्धो नास्ति । करोति तदा भव्यमिति।' यदि च भाद्रशुक्लपञ्चम्यां पर्वतिथित्वमेव न स्यात्तदा पञ्चम्याराधनाकामाधिकारिकस्यैतद्विशेषानुशासनस्यैव वैयर्थ्यापत्तिः । न चैतदिष्टं तवापि तत्प्रामाण्यमभ्युपगच्छत इति । एवं सेनप्रश्नोत्तरे-'षष्ठकरणशक्त्यभावे पञ्चम्युपवासः पञ्चम्यां विधीयतेऽथवा पर्युषणाचतुर्थ्यामिति प्रश्नः । अत्रोत्तरम्-पर्युषणायामुपवासे कृतेऽपि शुध्यति । श्रीहीरविजयसूरिप्रासादितप्रश्नसमुच्चयेऽपि तथैवोक्तत्वादिति प्रश्नोत्तरे । हीरप्रश्नोत्तरेऽपि-'पर्युषणोपवासः पञ्चमीमध्ये गण्यते न वा ? इति प्रश्नः । अत्रोत्तरम्-पर्युषणोपवासः षष्ठकरणसामर्थ्याभावे पञ्चमीमध्ये गण्यते । नान्यथेति ।' इति प्रश्नोत्तरे च पर्युषणोपवासस्य पञ्चमीमध्ये गणनीयत्वानुज्ञाऽपि षष्ठकरणसामर्थ्याभाव एव विहिता । अन्यथा भाद्रशुक्लपञ्चम्याः पर्वतिथित्वाभावे तत्र 'षष्ठकरणशक्त्यभावे' इत्याधुक्तेरेवाऽसङ्गतिः स्यात् । किञ्च, पर्युषणोपवासः पञ्चमीमध्ये गण्यते न वा ? इति प्रश्नस्तावत् किं तत्र पञ्चम्याः पर्वतिथित्वाभ्युपगमेन वा पर्वतिथित्वानभ्युपगमेन वा ? आद्य-सिद्धं पञ्चम्याः पर्वतिथित्वम् । द्वितीये-प्रश्नस्यैव वैयर्थ्यात् । पञ्चम्या- पर्वतिथित्वाभावे पर्युषणोपवासस्य पञ्चमीमध्ये गणनीयत्वागणनीयत्वयोर्विशेषाभावेन प्रयोजनाभावात् । पञ्चम्याः पर्वतिथित्वे सत्येव हि तत्प्रश्नस्य सार्थक्यात् । तथा च सिद्ध भाद्रशुक्लपञ्चम्या अपि पर्वतिथित्वम् । तत्सिद्धौ च 'क्षये पूर्वा तिथिः कार्या वृद्धौ कार्या तथोत्तरे' तिवचनस्य भाद्रशुक्लपञ्चमीविषयकत्वमपि सूपपन्नमिति । यदपि च प्राक् टिप्पनकोक्तप्रथमपञ्चम्याः फल्गुतिथित्वादित्युक्तं, तदप्यसत् ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001472
Book TitleGranthtrai
Original Sutra AuthorVijayanandsuri
AuthorShilchandrasuri
PublisherJain Granth Prakashan Samiti
Publication Year1999
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy