________________
११९
पर्युषणातिथिविनिश्चयः ॥
__ आराधनायां फल्गुतिथेस्त्याज्यत्वे प्रमाणाभावात् । एवं टिप्पनकोक्तप्रथमपूर्णिमादिष्वपि बोध्यम् । न हि यत्र दिने फल्गुतिथिस्तत्र दिने धर्मक्रियाराधनापि नैव कर्त्तव्येत्यत्र प्रमाणमस्ति । प्रत्युत शास्त्रे शक्तिसद्भावे धर्मक्रियायाः सर्वेष्वपि दिनेषु कर्तव्यतोपदेशात् । तथा हि -
'जइ सव्वेसु दिणेसु पालह किरियं हवइ लढें । जं पुण तहा न सक्कइ तहविह पालिज्ज पव्वदिणं ॥' इति ।
न च ज्योति:शास्त्रे शुभकार्ये फल्गुतिथेस्त्याज्यत्वस्योक्तेराराधनायामपि तस्यास्त्याज्यत्वमेवेति वाच्यम् ।
तस्या मुहूर्त्तमात्रविषयकत्वेनाराधनाविषयकत्वाभावात् । अन्यथा तत्राऽवमतिथेरपि त्याज्यत्वोक्तेराराधनायामपि तस्यास्त्याज्यत्वापत्तेः । उक्तं च ज्योतिःशास्त्रे शुभकार्ये मुहूर्ते यथा वृद्धतिथेस्त्याज्यत्वं तथा क्षीणतिथेरपि त्याज्यत्वम् ।
यदुक्तमारम्भसिद्धौ सुधीशृङ्गारवार्तिके च । तथा हि - 'त्रीन् वारान् स्पृशती त्याज्या त्रिदिनस्पर्शिनी तिथिः । वारे तिथित्रयस्पशि-न्यवमं मध्यमा च या ॥ १ ॥'
व्या०-यत्र तिथेवृद्धिस्तत्रैका तिथिस्त्रियं स्पृशतीति सा त्रिदिनस्पर्शिनी ।। तस्याः फल्गुरिति नाम हर्षप्रकाशग्रन्थे । यत्र तु तिथिपातस्तत्रैको वारस्तिस्रः तिथीः स्पृशति । तासु या मध्यमा तिथिः साऽवममित्युच्यते । एते द्वे अपि त्याज्ये । यदुक्तम्
'दिनक्षये भवेत् कार्य-क्षयस्तेन शुभं न तत् । प्रकृत्यन्यत्वमुत्पात-स्त्यहस्पृक् तदतोऽशुभम् ॥' इति । एवं मुहूर्तचिन्तामणिपीयूषधारायामपि-तथा हि -
'अथ तिथिक्षयर्धी वर्थे । क्षयश्च ऋद्धिश्च क्षयर्थी, तिथेः क्षयर्थी-तिथिक्षयर्थी । तिथिक्षयस्तिथिवृद्धिश्चैते वर्थे । अनयोः प्रसिद्धत्वाल्लक्षणं नोक्तम् ।
तत्र तिथिक्षयलक्षणम्-यत्र यो वारस्तिथिद्वयान्तं स्पृष्ट्वा तृतीयतिथेः कञ्चिदादिमभागमपि स्पृशति तत्र वारे मध्यमा तिथिः क्षयसंज्ञा । यथा नवमी रवौ घटिकाद्वयम्, पुनर्दशमी रखौ षट्पञ्चाशद् घटिकाः ५६, एकादश्याश्च घटिकाचतुष्टयं रविवारेण सह सम्बद्धमिति दशमी तिथिः क्षय संज्ञिता, अवमसंज्ञितेत्यपि चाहुः !
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org