Book Title: Granthtrai
Author(s): Vijayanandsuri, Shilchandrasuri
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 75
________________ ६६ रूपसम्यक्त्वोपघात इति भावनीयम् । एतेन यदुच्यते केनचित् - 'परपक्षनिश्रितस्य सर्वथा सम्यक्त्वं न भवत्येवे 'ति । तदपास्तं द्रष्टव्यम्, 'अनभिनिविष्टस्य मिथ्यादृष्टिनिश्रयाऽपि तदुपनीतासद्भूतार्थश्रद्धानस्याऽस्वारसिकत्वेन स्वारसिकजिनवचन श्रद्धानाविरोधित्वात् । अभिनिविष्टस्य तु स्वपक्षपतितस्य परपक्षपतितस्य वा मिथ्यादृष्टित्वानपायादित्यलं प्रपञ्चेनेति । धर्मपरीक्षायामप्युक्तं, 'अनाभोगाद् गुरुनियोगाद् वा सम्यग्दृष्टेरपि वितथ श्रद्धानभणनात्' । तथा चोक्तमुत्तराध्ययननिर्युक्तौ 'सम्मद्दिट्ठी जीवो उवइटुं पवयणं तु सद्दहइ | सद्दहइ असब्भावं अणाभोगा गुरुणिओगा वा ॥' इति । ग्रन्थत्रयी अत एव चाऽऽभिनिवेशिक मिथ्यात्वलक्षणेऽपि धर्मपरीक्षायां न्यायविशारदन्यायाचार्यैः 'सम्यग्वक्तृवचनानिवर्त्तनीयत्वार्थकस्वरसवाही 'ति विशेषणं प्रवेशितम् । विदुषोऽपि स्वरसवाहि भगवत्प्रणीतशास्त्रबाधितार्थश्रद्धानमाभिनिवेशिकमिति हि तल्लक्षणम् । अनाभोगादिजनितं वितथश्रद्धानं तु सम्यग्वक्तृवचननिवर्तनीयमेवेति अनाभोगाद् बाधितार्थश्रद्धानवतामाभिनिवेशिकमिथ्यात्वलक्षणायोगादेव न तत्प्रसङ्गः । नाऽपि द्वितीयः । आभोगाद् बाधितार्थश्रद्धानेऽपि हि न शास्त्रतात्पर्यबाधं प्रतिसन्धाय तेषां तथा श्रद्धानं नाऽपि पक्षपातेनेति पूर्वोक्ततल्लक्षणस्यैवाऽयोगान्नाऽऽभिनिवेशित्वप्रसङ्गः । लक्षणघटकस्य 'विदुषोऽपी' त्यस्य शास्त्रतात्पर्यबाधप्रतिसन्धानवत इत्यर्थकत्वात् । गोष्ठा माहिलादीनां तु शास्त्रतात्पर्यबाधं प्रतिसन्धायैव स्वरसवाहि भगवत्प्रणीतशास्त्रे बाधितार्थश्रद्धानमस्तीति तल्लक्षणयोगादाभिनिवेशिकमिथ्यात्वमव्याहतमेव तिष्ठति । एवं श्रीजिनभद्र - सिद्धसेनादयोऽपि भगवत्पादाः स्वस्वाभ्युपगतमर्थं शास्त्रतात्पर्यबाधं प्रतिसन्धायाऽपि पक्षपातेन न प्रतिपन्नवन्तः किन्त्वविच्छिन्नप्रावचनिकपरम्परया शास्त्रतात्पर्यमेव स्वाभ्युपगतार्थानुकूलत्वेन प्रतिसन्धायेति न तेऽभिनिवेशिनः । किञ्चाऽभिनिवेशित्वस्य व्यापन्नदर्शननियतत्वेन तेषामव्यापन्ननिर्मलदर्शनानामविच्छिन्नप्रभावशालित्रिकालाबाधित श्रीवतरागप्रवचनप्रकृष्टतमरागवतां पूज्यानां महापुरुषा Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176