Book Title: Granthtrai
Author(s): Vijayanandsuri, Shilchandrasuri
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 117
________________ १०८ ग्रन्थत्रयी चतुर्थीतिथित्वेनैव तत्र दिने प्रामाण्यं चतुर्थीदिनत्वेनैव च तत्र दिने व्यपदेश इति गृहाण । यतस्तिथिसामान्यस्य तत्र दिनेऽवश्याभ्युपगमनीयत्वम् । न च विशेषविनिर्मुक्तं सामान्यं वचिदपि प्रमाणम् । नापि तत्र दिने तृतीयातिथित्वेन षष्ठीतिथित्वेन वा प्रामाण्यम्, तृतीयादिनत्वेन षष्ठीदिनत्वेन वा व्यपदेश इति युक्तम् । सर्वसिद्धतिथिक्रमव्यवस्थाविप्लवप्रसङ्गात् । इत्थं च विवादापन्ने गुरुवासरादौ टिप्पनकोक्तप्रथमपञ्चमीदिने तिथिसामान्यवति चतुर्थीतिथ्यन्यतिथिस्वीकारानर्हे 'वृद्धौ कार्ये' तिवचनज्ञापिता पञ्चमीत्वेन प्रामाण्यनिवृत्तिरेव चतुर्थीत्वेन प्रामाण्यं विना न स्यात् । इति तिथिसामान्यवति पञ्चमीत्वेन प्रामाण्यनिवृत्तिरेवान्यथाऽनुपपन्ना तत्र दिने चतुर्थीत्वेन प्रामाण्यमापादयति । 'सर्वतो बलवती ह्यन्यथानुपपत्ति'रिति सामान्यवति विशेषव्यावृत्तेविशेषान्तरं विनानुपपत्तेविशेषान्तराक्षेपकत्वनियमाच्च । दृष्टं चैतत् घटसामान्यवति भूतले नीलघयद्यात्मकघटविशेषनिवृत्तिः पीतघटाद्यात्मकघटविशेषान्तरं विनाऽनुपपन्ना तादृग्घटविशेषान्तरमाक्षिपत्येवेति । तत्राप्यौदयिकचतुर्थीत्वेनैव प्रामाण्यमित्यपि बोध्यम्। सर्वत्रापि तिथौ 'उदयंमि जा तिहि' इत्यादिनाऽऽराधनायामौदयिकत्वस्यैव प्रामाण्यप्रयोजकत्वस्य व्यवस्थापितत्वेन प्रामाण्यस्यौदयिकत्वाविनाभावित्वेनौदयिकत्वस्यापि तेनापादनादिति निष्प्रत्यूहमेव सिद्धमाराधनायां तत्र दिने औदयिकचतुर्थीतिथित्वेनैव प्रामाण्यं, चतुर्थीदिनत्वेनैव च तत्र दिने व्यपदेश इति । एवं च शास्त्रोपदर्शिततत्तत्पर्वतिथिनिमित्तकाहोरात्रव्यापिपौषधादिव्रतनियमस्याराधनान्यथानुपपत्तेरहोरात्रव्यापित्वमपि । तत्र दिने टिप्पनके प्रथमपञ्चमीसत्त्वेऽप्याऽऽराधनायां 'वृद्धौ कार्ये'ति वचनेन प्राप्तप्रामाण्यकचतुर्थ्या एव मन्तव्यम् । 'सा सम्पूर्णे'ति वचनेनौदयिकत्वेनाभिमताया एव तिथेरहोरात्रव्यापित्वरूपसम्पूर्णत्वस्य मन्तव्यत्वादित्यपि बोध्यम् । इत्थं च 'अणागयचउत्थीए' 'चउत्थी पवत्तिया' इत्यादौ चतुर्थीशब्दस्य चतुर्थ्यर्थकत्वाऽऽग्रहेऽपि न नो विद्वेषः, आराध्यपञ्चमीदिनाव्यवहितपूर्वदिनात्मकटिप्पनकोक्तप्रथमपञ्चमीदिनगुरुवासरे 'वृद्धौ कार्ये'ति वचनानुसारेणाराधनायामौदयिकचतुर्थीदिनत्वस्यैव गणनीयत्वात् । एवं पर्वतिथ्याराधनायां सर्वत्रापि टिप्पनके पर्वतिथिवृद्धौ भावनीयम् । तथा हि Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176