Book Title: Granthtrai
Author(s): Vijayanandsuri, Shilchandrasuri
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 121
________________ ग्रन्थत्रयी ११२ पूर्णामावास्ये उक्ते, पर्वदिनत्वमपि तयोस्तत्रोक्तम् । तथाहि-"तथा, पोषं पुष्टि कुशलधर्माणां धत्ते यदाहारत्यागादिकमनुष्ठानं तत्पौषधम्, तेनोपवसनमवस्थानमहोरात्रं यावदिति पौषधोपवास इति । अथवा-पौषधं पर्वदिनमष्टम्यादि, तत्रोपवासोऽभक्तार्थः पौषधोपवास इति । इयं व्युत्पत्तिरेव प्रवृत्तिस्त्वस्य शब्दस्याहारशरीरसत्कारब्रह्मचर्यव्यापारपरिवर्जनेष्विति । तत्र पौषधोपवासे निरत आसक्तः पौषधोपवासनिरतो यः सः । एवंविधस्य श्रावकस्य चतुर्थी प्रतिमेति प्रक्रमः । अयमत्र भावः । पूर्वप्रतिमात्रयोपेतोऽष्टमीचतुर्दश्यमावास्यापौर्णमासीष्वाहारपौषधादिचतुर्विधं पौषधं प्रतिपद्यमानस्य चतुरो मासान् यावच्चतुर्थी प्रतिमा भवतीति । तथा पञ्चमीप्रतिमायामष्टम्यादिषु पर्वस्वेकरात्रिकप्रतिमाकारी भवति । इति । तथा चौक्तवचनैः सर्वास्वपि पर्वतिथिरूपासु पूर्णामास्वमावास्यासु च 'वृद्धौ कार्येति वचनस्य सावकाशतया तदनुसारेणोपदर्शितप्रक्रियया टिप्पनके तहृद्धावप्याराधनायां त्रयोदशीवृद्धिः सूपपनैव । इत्थं च चतुर्दशीपूर्णिमयोः चतुर्दश्यमावास्ययोश्च पर्वतिथ्योर्द्वयोः सार्वदिकं सम्बन्धत्वमप्याराधनायामव्याहतं व्यवतिष्ठेत । नन्वेवं टिप्पनके पूर्णिमाभिवृद्धौ टिप्पनकोक्तप्रथमपूर्णिमादिने टिप्पनके सूर्योदयवेलायां पूर्णिमाया एव सत्त्वेऽपि 'वृद्धौ कार्या तथोत्तरे'ति वचनानुसारेण प्रागुपदर्शितप्रक्रिययाऽऽराधनायामौदयिकचतुर्दशीत्वेन प्रामाण्याङ्गीकारे चतुर्दशीदिनत्वेन च व्यपदेशाभ्युपगमे, 'टिप्पनकोक्तचतुर्दशीदिने च टिप्पनके सूर्योदयवेलायां चतुर्दश्या एव सत्त्वेऽप्याराधनायामौदयिकत्रयोदशीत्वेन प्रामाण्याङ्गीकारे द्वितीयत्रयोदशीदिनत्वेन च व्यपदेशाभ्युपगमे च, तत्रोभयत्रापि चतुर्दशीत्वं त्रयोदशीत्वं चाऽऽरोपितमेव स्वीकार्यमिति 'वृद्धौ कार्या तथोत्तरे'त्ति वचनेन टिप्पनकोक्तद्वितीयपूर्णिमादिने पूर्णिमात्वेन प्रामाण्यम्, टिप्पनकोक्तप्रथमपूर्णिमादिने च फल्गुतिथिदिनत्वं टिप्पनकोक्तचतुर्दशीदिने च चतुर्दशीत्वेन प्रामाण्यं स्वीकार्यमित्येव पन्था ज्यायान् । तथा च टिप्पनकोक्तप्रथमपूर्णिमायां चतुर्दशीत्वारोपः टिप्पनकोक्तचतुर्दश्यां च त्रयोदशीत्वारोपोऽपि नैव कल्पनीयः । एवं सर्वत्रापि टिप्पनकोक्तप्रथमद्वितीया-प्रथमपञ्चम्यादौ प्रतिपत्त्व-चतुर्थीत्वाधारोपकल्पना बोध्या । न च षष्ठतप:करणानुपपत्तिरिति । टिप्पनकोक्तत्रयोदशीचतुर्दशीदिनयोरेव षष्ठतपःकरणोपत्तेरिति चेत् । न । यत्र दिने टिप्पनके चतुर्दशीक्षयः तत्र दिने टिप्पनके औदयिकत्रयोदश्या Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176