________________
६६
रूपसम्यक्त्वोपघात इति भावनीयम् ।
एतेन यदुच्यते केनचित् -
'परपक्षनिश्रितस्य सर्वथा सम्यक्त्वं न भवत्येवे 'ति ।
तदपास्तं द्रष्टव्यम्, 'अनभिनिविष्टस्य मिथ्यादृष्टिनिश्रयाऽपि तदुपनीतासद्भूतार्थश्रद्धानस्याऽस्वारसिकत्वेन स्वारसिकजिनवचन श्रद्धानाविरोधित्वात् । अभिनिविष्टस्य तु स्वपक्षपतितस्य परपक्षपतितस्य वा मिथ्यादृष्टित्वानपायादित्यलं प्रपञ्चेनेति ।
धर्मपरीक्षायामप्युक्तं,
'अनाभोगाद् गुरुनियोगाद् वा सम्यग्दृष्टेरपि वितथ श्रद्धानभणनात्' । तथा चोक्तमुत्तराध्ययननिर्युक्तौ
'सम्मद्दिट्ठी जीवो उवइटुं पवयणं तु सद्दहइ |
सद्दहइ असब्भावं अणाभोगा गुरुणिओगा वा ॥' इति ।
ग्रन्थत्रयी
अत एव चाऽऽभिनिवेशिक मिथ्यात्वलक्षणेऽपि धर्मपरीक्षायां न्यायविशारदन्यायाचार्यैः 'सम्यग्वक्तृवचनानिवर्त्तनीयत्वार्थकस्वरसवाही 'ति विशेषणं प्रवेशितम् । विदुषोऽपि स्वरसवाहि भगवत्प्रणीतशास्त्रबाधितार्थश्रद्धानमाभिनिवेशिकमिति हि तल्लक्षणम् । अनाभोगादिजनितं वितथश्रद्धानं तु सम्यग्वक्तृवचननिवर्तनीयमेवेति अनाभोगाद् बाधितार्थश्रद्धानवतामाभिनिवेशिकमिथ्यात्वलक्षणायोगादेव न तत्प्रसङ्गः ।
नाऽपि द्वितीयः । आभोगाद् बाधितार्थश्रद्धानेऽपि हि न शास्त्रतात्पर्यबाधं प्रतिसन्धाय तेषां तथा श्रद्धानं नाऽपि पक्षपातेनेति पूर्वोक्ततल्लक्षणस्यैवाऽयोगान्नाऽऽभिनिवेशित्वप्रसङ्गः । लक्षणघटकस्य 'विदुषोऽपी' त्यस्य शास्त्रतात्पर्यबाधप्रतिसन्धानवत इत्यर्थकत्वात् ।
गोष्ठा माहिलादीनां तु शास्त्रतात्पर्यबाधं प्रतिसन्धायैव स्वरसवाहि भगवत्प्रणीतशास्त्रे बाधितार्थश्रद्धानमस्तीति तल्लक्षणयोगादाभिनिवेशिकमिथ्यात्वमव्याहतमेव तिष्ठति ।
एवं श्रीजिनभद्र - सिद्धसेनादयोऽपि भगवत्पादाः स्वस्वाभ्युपगतमर्थं शास्त्रतात्पर्यबाधं प्रतिसन्धायाऽपि पक्षपातेन न प्रतिपन्नवन्तः किन्त्वविच्छिन्नप्रावचनिकपरम्परया शास्त्रतात्पर्यमेव स्वाभ्युपगतार्थानुकूलत्वेन प्रतिसन्धायेति न तेऽभिनिवेशिनः । किञ्चाऽभिनिवेशित्वस्य व्यापन्नदर्शननियतत्वेन तेषामव्यापन्ननिर्मलदर्शनानामविच्छिन्नप्रभावशालित्रिकालाबाधित श्रीवतरागप्रवचनप्रकृष्टतमरागवतां पूज्यानां महापुरुषा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org