________________
आचार्य श्रीविजयनन्दनसूरिभगवत्प्रणीतं आचेलक्यतत्त्वम् ॥
णामभिनिवेशित्वोक्तेर्महानर्थकरत्वमेव केवलमिति ।
ननु सत्यमेवैतत् गृहीतमेवैतच्च । परं तत्र पक्षद्वयविषयकविप्रतिपत्तेः संशयप्रयोजकतया मध्यस्थश्रोतॄणां ततः शास्त्रार्थसंशये सांशयिकमिथ्यात्वापत्तिरिति चेत् । न । भगवद्वचनप्रामाण्यसंशयप्रयुक्तस्यैव शास्त्रार्थसंशयस्य सांशयिकमिथ्यात्वरूपत्वात् । मध्यस्थानां च विप्रतिपत्तेः शास्त्रार्थसंशयसम्भवेऽपि तेषां भगवद्वचनप्रामाण्यसंशयाभावात् शास्त्रार्थसंशयस्याऽपि तत्प्रयुक्तत्वाभावात् । उक्तं च श्रीमद्भिययविशारद - न्यायाचार्यैर्धर्मपरीक्षायां -
'भगवद्वचनप्रामाण्यसंशयप्रयुक्तः शास्त्रार्थसंशयः सांशयिकम्' । यथा 'सर्वाणि दर्शनानि प्रमाणं कानिचिद् वा ? | 'इदं भगवद्वचनं प्रमाणं न वा ?' इत्यादिसंशयानां मिथ्यात्वप्रदेशोदयनिष्पन्नानां साधूनामपि सूक्ष्मार्थसंशयानां मिथ्यात्वाभावो मा प्रासाक्षीदिति भगवद्वचनप्रामाण्यसंशयप्रयुक्तत्वं विशेषणम् । ते च नैवम्भूताः, किन्तु भगवद्वचनप्रामाण्यज्ञाननिवर्तनीयाः । सूक्ष्मार्थादिसंशये सति
'तमेव सच्वं णीसंकं जं जिणेहिं पवेइयं ॥ इत्याद्यागमोदितभगवद्वचनप्रामाण्यपुरस्कारेण तदुद्धारस्यैव साध्वाचारत्वात् ।
या तु शङ्का साधूनामपि स्वरसवाहितया न निवर्त्तते सा सांशयिकमिथ्यात्वरूपा सत्यनाचारापादिकैव । अत एव काङ्क्षामोहोदयादाकर्षसिद्धिरिति ।
६७
तथा च पक्षद्वयविषयकविप्रतिपत्तिजन्यशास्त्रार्थसंशयेऽपि मध्यस्थ श्रोतॄणां भगवद्वचनप्रामाण्यस्य हृदि सद्भावेन नैव सांशयिकमिथ्यात्वप्रसङ्गोऽपीति निरवद्यमेव सिद्धमिति सङ्क्षेपः ॥
( प्रशस्तिः ) प्रौढप्रभावसुभगा सुविशुद्धवर्णा पूर्णाभिलाषविबुधेशनिषेवणीया । वाणी कवेरिव मुदं वितनोतु पुण्या श्रीस्तम्भनाधिपतिपादनखावली वः ॥ १॥
बुधजनरुचिरम्यं नन्दितानन्दवृन्दं शमितसकलतापं बोधशुद्धिप्रकाशम् । वचनममृतसारं श्रीतपागच्छपस्याऽनघमहमभिनौमि श्रीमतो नेमिसूरेः ॥ २॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org