________________
ग्रन्थत्रयी
सिद्धान्ताश्च नयाः कणाद-कपिल-व्यासाक्षपादोद्भवा मायासौनव-जैमिनीयसमया येनाऽखिला वेदिताः । तत्तन्नव्यमहार्थशास्त्ररचनासम्प्राप्तसद्गौरवः सोऽयं श्रीगुरुनेमिसूरिभगवान् भट्टारको नः श्रियै ॥३॥ तस्य पट्टधरः पूज्यः सिद्धान्तज्ञशिरोमणिः । विजयोदयसूरीशस्तस्य पट्टभृता मया ॥४॥ आचेलक्यस्य सम्बन्धि तत्त्वं किञ्चिद्विनिर्मितम् । सूरिणा नन्दनेनेदं शोध्यं सद्भिः कृपालुभिः ॥५॥ वेदाष्टाङ्केन्दुमानेऽब्दे स्तम्भतीर्थे शनौ शुभे । इषोज्ज्वलद्वितीयायां कृतमेतत् सदा श्रियै ॥६॥
. सकलजगदुद्धर्तुकामितादिसकलगुणसमूहसमन्वितानां, कलिकालात्महिताद्वितीयसाधनश्रीशत्रुञ्जय-रैवतगिरि-सम्मेतशिखर-तारङ्गगिरिप्रभृतिमहापवित्रतीर्थसंरक्षणदक्षाणां, भव्यजन्तुपुण्यप्राग्भारैकदर्शनीयकेवलज्ञान-निर्वाणाप्त्यनुपमधामानन्ततीर्थङ्करगणधरपरम्परापवित्रिततीर्थाधिराजश्रीसिद्धगिरितीर्थपवित्रितसौराष्ट्रनामदेशान्तर्गतजगत्प्रसिद्धजीवन्तस्वामित्वप्रवादश्रीमन्महावीरवर्धमानस्वामिप्रतिमापरिशोभितमहाप्रासादलङ्कृत-श्रीवज्रस्वाम्यादिमहापुरुषपदपवित्रितश्रीमधुमती-महुवानामनगाँ वीशाश्रीमालीज्ञातीय-श्राद्धगुणोपशोभितलक्ष्मीचन्द्राभिधजनकविशुद्धशीलाद्यलङ्कारालङ्कृत-श्राविकागुणभूषितदीपालीनामजननीलब्धजन्मनां, सुविहितश्रीभगवत्यादि -योगानुष्ठानानां, विद्यापीठादिप्रस्थानपञ्चकसमाराधनप्राप्तार्हद्धर्मसाम्राज्यसिंहासनश्रीसुधर्मस्वामि-श्रीसुस्थितसूरि-श्रीचन्द्रसूरि-श्रीसमन्तभद्रसूरि-श्रीसर्वदेवसूरि-श्रीजगच्चन्द्रसूरिप्रमुखपरम्परोपशोभितसूरिपदानां, सर्वतन्त्रस्वतन्त्राणां, शासनसाम्राज्यभाजां, सूरिचक्रचक्रवर्तिनां, जगद्गुरूणां, तपागच्छाधिपतीनां, सुगृहीतनामधेयानां, भट्टारकाचार्यश्रीमद्विजयनेमिसूरिभगवतां साम्राज्ये तत्पट्टालङ्कारसिद्धान्तवाचस्पति-न्यायविशारदाचार्यश्रीमद्विजयोदयसूरीशपट्टभृता विजयनन्दनसूरिणा विरचितमाचेलक्यतत्त्वं समाप्तम् ॥
लिखितं चेदं पुस्तकं मधुमतीनामपुर्यां जयतारणनिवासि-माहात्म्य(त्मा) दीपचन्द्रसूनु-शिवराजनामलेखकेन । बाणगजनिधीन्दुप्रमिते(१९८५) वैक्रमसंवत्सरे आश्विनपूर्णिमायां शुक्रवासरे ॥
॥ शुभं भवतु ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org