________________
॥ अहम् ॥ ॥ श्रीसकललब्धिसम्पन्नाय श्रीगौतमस्वामिने नमः ॥ सर्वतन्त्रस्वतन्त्र-शासनसम्राट्-सूरिचक्रचक्रवर्ति-जगद्गुरु-तपागच्छाधिपति-भट्टारकाचार्य -
श्रीमद्विजयनेमिसूरिभगवद्भ्यो नमः ॥ आचार्यश्रीविजयनन्दनसूरिभगवत्प्रणीतः
॥ पर्युषणातिथिविनिश्चयः ॥ सेरीसकपुरोत्तंसं सप्रभावाञ्जनप्रभम् । नौमि सेरीसकं पाश्र्वं सर्वमङ्गलदायिनम् ॥ १ ॥
वन्देऽहं सूरिसम्राजं नेमिसूरिं जगद्गुरुम् ।
यत्कृपालेशतोऽप्यत्र सिद्धिं यामि न संशयः ॥ २ ॥ विजयोदयसूरीश-शिष्येणाऽऽतन्यते मया । पर्युषणातिथेः सम्यग्-गुर्वादेशाद् विनिश्चयः ॥ ३ ॥
प्रमादबहुलो जीवो बुद्धिनौकाऽपि नो दृढा ।
अगाधः श्रुतसिन्धुश्च भक्तिरेषैव केवला ॥ ४ ॥ आगमादागमापेक्षात् सम्प्रदायाद् गुरुक्रमात् । आगमाबाधितात्तात् यथाशक्ति शुभे यते ॥ ५ ॥
प्रमादाद् यत्किञ्चित् स्मरणबलमान्द्याच्च किमपि धियो वा वैकल्यात् किमपि हृदयौत्सुक्यवशतः । मयोक्तं किञ्चिद्यत् स्खलितमिह सिद्धान्तसरणेः
क्षमन्तां मे सन्तस्तदनघदयाकहृदयाः ॥ ६ ॥ अत्र स्मृतस्योपेक्षानहत्वेन शिरोमणिकाव्यमनूद्यते -
मान्यान् प्रणम्य विहिताञ्जलिरेष भूयो - भूयो विधाय विनयं विनिवेदयामि । दृष्यं वचो मम परं निपुणं विभाव्य
भावावबोधविहितो न दुनोति दोषः ॥ १ ॥ इह हि तावत् तिथीनां गणना टिप्पनकादेव भवति । जैनटिप्पनकं च भूरिकालत एव न ज्ञायते । वर्तमानटिप्पनकानि च ब्रह्मपक्षीयत्वसौरपक्षीयत्वादिभेदेन तत्तद्देशभेदेन चानेकप्रकाराण्युपलभ्यन्ते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org