________________
७०
ग्रन्थत्रयी न च तत्र सर्वेषु टिप्पनकेषु तिथिनैयत्यम् । कुत्रचिद् हि टिप्पनके यदा पञ्चमीक्षयस्तदा कुत्रचित् षष्ठीक्षयस्तदैव च कुत्रचित् सप्तमीक्षयोऽपि । एवं कुत्रचित् पूर्णिमाक्षयस्तदा कुत्रचित् प्रतिपदः क्षयः ।
एवं तिथिवृद्धावपि न तत्र तत्र टिप्पनके नैयत्यम् । एवं तिथिनक्षत्रादिघटीपलमानमप्यनियतमेव तत्र तत्र टिप्पनके ।
__ अथ च तत्तद्देशवासिनां तत्तद्देशीयेन भिन्नभिन्नटिप्पनकेनैव व्यवहरणे तिथ्याराधनायामनैयत्यमेव स्यात् । ततो जैनसकलसचे तत्तद्देशभेदेन तत्तट्टिप्पनकाऽनुसरणे सांवत्सरिक-चातुर्मासिक-पाक्षिका-ऽष्टम्यादिपर्वतिथ्याराधनायामनैयत्यं मा प्रासाङ्क्षीदिति कतिपयकालतः सुविहिताग्रणीभिर्मध्यदेशीयत्वादिहेतुना योधपुरीयश्रीधरीयचण्डुटिप्पनकानुसरणमेव सर्वत्र देशे तिथ्याराधनायां निर्णीतम् । तथैव चाऽनुमतं सकलग्रामनगरादिसकलसधैः । विहार-प्रतिष्ठो-पस्थापनादिमुहूर्ते तत्तद्देशीयटिप्पनकानुसरणेऽपि तिथ्याराधनायां त्वद्यापि यावत् सुविहितपरम्परात उक्तचण्डुटिप्पनकानुसारेणैव प्रायः प्रवृत्तिः ।
अत्र कदाचित् कारणेऽपेक्षाविशेषेण वा चण्डुटिप्पनकादन्यटिप्पनकानुसरणमपि श्रीसङ्घन क्रियत एवेत्यादि विशेषविचारश्च टिप्पनकसम्बन्धी अग्रे वक्ष्यते ।
अत्र तावदहोरात्रतिथीनामयं विशेषः । तथा हि-सूर्योत्पन्ना अहोरात्राः, चन्द्रोत्पन्नास्तिथयः । उक्तं च -
'सूरस्स गगणमंडल-विभागनिष्फाइया अहोरत्ता । चंदस्स हाणिवुड्डी-कएण निप्फज्जए उ तिही' ॥ इति । 'भवन्ति तिथयश्चेन्दोः कलावृद्धिक्षयोद्भवाः' इति च ।
एवमहोरात्रः सूर्योदयमारभ्याऽपरसूर्योदयं यावत् तावत्कालो रविवाराद्यपरपर्यायः सकललोकप्रसिद्धः । स च त्रिंशन्मुहूर्तप्रमाणः । तिथिश्च शास्त्रे द्वाषष्टितमभागोनाहोरात्रप्रमाणा । लौकिकटिप्पनके तु जघन्यतश्चतुष्पञ्चाशद्धटिकामिता, उत्कर्षतश्च पञ्चषष्टिघटिकामिताऽपि दृश्यते ।
अत्र तिथित्वं कालविशेषः । चान्द्रकलाविशिष्टकालत्वमिति यावत् । शुक्लतिथित्वं च प्रकाश्यमानचान्द्रकलाविशिष्टकालत्वं, कृष्णतिथित्वं चाऽऽव्रियमाणचान्द्रकलाविशिष्टकालत्वम् । एवं प्रकाश्यमानप्रथमादिकलाविशिष्टकालत्वं शुक्लप्रतिपदादित्वं,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org