________________
पर्युषणातिथिविनिश्चयः ॥
आव्रियमाणप्रथमादिकलाविशिष्टकालत्वं कृष्णप्रतिपदादित्वम् ।
1
तिथौ औदयिकत्वं सूर्योदयस्पर्शित्वम् । तिथौ क्षीणत्वमप्राप्तसूर्योदयत्वं सूर्योदयास्पर्शित्वं वा । तिथौ वृद्धत्वं प्राप्तसूर्योदयद्वयत्वं सूर्योदयद्वयस्पर्शित्वमित्यपि बोध्यम् ।
अथाऽत्र टिप्पनकवचनं सामान्यवचनम् । तद्धि यत्र यत्र रव्यादिदिने यावद्यावद्धटिकाप्रमाणा या या तिथिः स्यात् तत्र तत्र दिने तावत्तावद्घटिकाप्रमाणा सा सा तिथिः प्रमाणमित्येवं सामान्यतो ज्ञापयति । तत्र कस्मिश्चिद्दिने एकमेव तिथि. कस्मिश्चिद्दिने तिथिद्वयं, कस्मिश्चिद्दिने तिथित्रयमपि ज्ञापयति ।
यतः प्रतिपदादितिथिः टिप्पनके सर्वत्र रव्यादिलक्षणे दिने नाहोरात्रव्यापिनी भवति किन्तु न्यूनाधिका च भवति । यथा गुरुवासरे प्रतिपत् साधिका अष्टपञ्चाशद्घाटिका यावत् तदनु द्वितीया । शुक्रवासरे द्वितीया षष्टिं घटिका यावत् । शनिवासरे द्वितीया द्वाचत्वारिंशत् पलानि यावत्, तदनु तृतीया । रविवासरे तृतीया साधिकामेकघटिकां यावत्, तदनु चतुर्थी । सोमवासरे चतुर्थी साधिकामेकां घटिकां यावत्, तदनु पञ्चमी । भौमवासरे पञ्चमी षोडशपलानि, तदनु तस्मिन्नेव भौमवासरे षष्ठी साधिकाः सप्तपञ्चाशद् घटिका यावत्, तदनु तत्रैव दिने सप्तमीति ।
७१
-
अथाऽत्र टिप्पनके गुरु-शनि रवि - सोमदिनेषु द्वयोद्वयोस्तिध्योर्विद्यमानत्वेन भौमदिने च तिसृणां तिथीनां विद्यमानत्वेन चाऽऽराधनायां कस्मिन् दिने का तिथि: प्रमाणतया व्यवहर्त्तव्या ? यथा सोमवासरे पञ्चमी तिथि: सूर्योदयात् साधिकैकघटिकातः परतोऽस्ति, भौमवासरे तु सूर्योदयादारभ्य षोडशपलानि यावदस्ति । तत्राऽऽराधनायां कस्मिन् दिने पञ्चमीत्वेन पञ्चमी तिथि: प्रमाणतया व्यवहर्त्तव्या ? किं सोमवासरे किं वा भौमवासरे ? इत्याकाङ्क्षायां तिथ्याराधनाया अव्यवस्थितत्वं मा प्रासाङ्क्षीदिति किमप्यवश्यं नियामकं वाच्यमिति तदुच्यते ।
तत्र नियामकवचनानि चैवम् -
'उदयंमि जा तिही सा पमाणमियराए कीरमाणीए । आणाभंगऽणवत्था-मिच्छत्तविराहणं पावे ॥ १ ॥
Jain Education International
पूआ पच्चक्खाणं पडिक्कमणं तह य नियमग्गहणं च । जीए उदेइ सूरो तीइ तिहीए उ कायव्वं ॥ २ ॥
For Private & Personal Use Only
www.jainelibrary.org