________________
७२
ग्रन्थत्रयी चाउम्मासियवरिसे पक्खिअ पंचट्ठमीसु नायव्वा । ताओ तिहिओ जासिं उदेइ सूरो न अन्नाओ" ॥ ३ ॥
तिथिश्च प्रातः प्रत्याख्यानवेलायां या स्यात् सा प्रमाणम्, सूर्योदयानुसारेणैव लोकेऽपि दिवसादिव्यवहारात् । पाराशरस्मृत्यादावपि -
'आदित्योदयवेलायां या स्तोकाऽपि तिथिर्भवेत् । सा सम्पूर्णेति मन्तव्या प्रभूता नोदयं विना ॥' इत्यादीनि । उमास्वातिप्रघोषश्चैवं श्रूयते - 'क्षये पूर्वा तिथिः कार्या वृद्धौ कार्या तथोत्तरा । 'श्रीवीरज्ञाननिर्वाणं कार्य लोकानुगैरिह ॥' इति ।
अत्र-'उदयंमि जा तिही सा पमाणम्' इत्यादेरयमर्थः-टिप्पनके यस्मिन् रव्यादिलक्षणे दिने सूर्योदयवेलायां या तिथिर्भवेत् तस्मिन् दिवसे सा तिथि:-तत्तिथित्वेनाऽऽराधनायां प्रमाणं कार्या । यथा-टिप्पनके भौमवासरे सूर्योदयवेलायां पञ्चमी वर्तते । ततो भौमवासर एव पञ्चमी पञ्चमीत्वेनाऽऽराधनायां प्रमाणं कार्या, न तु सोमवासरे । तत्र दिने टिप्पनके सूर्योदयात् साधिकैकघटिकातः परतः पञ्चम्यां सत्त्वेऽपि सूर्योदयवेलायां पञ्चम्या अभावात् । लोकेऽपि सूर्योदयानुसारेणैव दिवसादिव्यवहारात् । अन्यथा तिथ्याराधनाव्यवहारानियतत्वं प्रसज्येतेति । इयमेव चौदयिकी तिथि: उदयतिथिर्वा व्यपदिश्यते । सूर्योदयस्पर्शित्वं हि तिथावौदयिकत्वमुदयत्वं वा । औदयिक्यामेव तत्तत्तिथौ तत्तत्तिथित्वेनाऽऽराधनायां प्रामाण्यमिति फलितोऽर्थः ।।
अत्र औदयिकी तिथिरुद्देश्या प्रामाण्यं च विधेयम् । असति बाधके च उद्देश्यतावच्छेदकस्य विधेयप्रयोजकत्वनियमेन उद्देश्यतावच्छेदकस्यौदयिकत्वस्य प्रामाण्यरूपविधेयप्रयोजकत्वं सिद्धम् ।
एवं च टिप्पनके यत्र यत्र तिथौ सूर्योदयस्पर्शित्वरूपमौदयिकत्वं तत्र तत्र तिथौ तत्तत्तिथित्वेनाऽऽराधनायां प्रामाण्यमिति प्रामाण्यस्यौदयिकत्वव्यापकत्वमपि बोध्यमिति ।
अत्रेदं बोध्यम् - "विधिरत्यन्तमप्राप्तौ नियमः पाक्षिके सति ।
तत्र चान्यत्र च प्राप्तौ परिसङ्ख्येति गीयते ॥' इत्यन्यत्रोक्तं नियमवचन१. श्रीमद्वीरस्य निर्वाणं । इति, श्रीवीरनाथनिर्वाणं । इति च क्वचित् पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org