________________
७३
पर्युषणातिथिविनिश्चयः॥ स्वरूपमप्यत्रोपपद्यते । पक्षेऽप्राप्तस्यार्थस्य नियमनात् ।
'उदयंमि जा तिही सा पमाणम्' इति हि वचनं न तिथेः प्रामाण्यं बोधयति, तिथिप्रामाण्यस्य टिप्पनकादेव प्राप्तत्वात् । किन्तु, आराधनायां तिथिप्रामाण्ये नियम बोधयति । नियमश्च-अप्राप्तांशपूरणम् । यतः-अष्टम्यादितिथेराराधनायामष्टम्यादितिथे: टिप्पनके दिनद्वयेऽपि सद्भावेन यस्मिन् दिने औदयिकीमष्टमी परित्यज्यानौदयिकी तामाराधयति तत्र दिने औदयिक्या अष्टम्या अप्राप्तत्वेन तद्विधानात्मका प्राप्तांशपूरणमेवानेन वचनेन क्रियते । अतो नियमवचनेऽप्राप्तांशपूरणात्मको नियम एव वाक्यार्थः ।
पक्षे-अप्राप्ततादृशायां औदयिकत्वेनाऽऽराधनायां प्रामाण्यविधानादेतद्वचनाभावे हि 'अट्ठमी चउद्दसी अ नियमेण हविज्ज पोसहिओ' इत्यादिवचनप्राप्ताष्टम्यादिपर्वाराधनायामौदयिकीमष्टमीमिव कदाचिदनौदयिकीमप्यष्टमी प्रमाणीकुर्यात् । सति चास्मिन् वचने औदयिक्येवाष्टमी अष्टमीपर्वाराधनायां प्रमाणीकार्येति नियमे आराधनायामनौदयिकी प्रमाणतया सर्वात्मना निवर्तते ।
न चानौदयिक्यां प्रामाण्यनिवृत्तिर्नेष्टेति वाच्यम् ।
'इयराए कीरमाणीए आणाभंगऽणवत्था मिच्छत्तविराहणं पावे' इत्यादिनाऽनौदयिक्यां प्रत्यवायप्रदर्शनेन तत्र तन्निवृत्तेरपीष्टत्वात् ।
न चैवं तत्र टिप्पनकवचनस्य वैयर्थ्यमिति वाच्यम् ।
तिथीनां सूर्योदयस्पर्शित्वरूपौदयिकत्वतदभावनिर्णये टिप्पनकवचनस्यैव प्रामाण्यात् । यात्रादिमुहूर्ते तदुपयोगाच्चेति ।।
___अत्र पाक्षिकप्राप्ति-युगपत्प्राप्तिरूपस्यावान्तरविशेषस्याऽविवक्षणादन्यनिवृत्तिरूपनियमसाधर्म्याच्च परिसङ्ख्याया अपि नियमशब्देन व्यवहारो भवतीत्यपि बोध्यम् ।
ननु तथापि किं यावत्कालं टिप्पनकेऽष्टमी स्यात् तावत्कालं यावदेव तत्र दिनेऽष्टमीत्वेनाष्टमी प्रमाणीकार्या उत तदहोरात्रं यावदिति चेत् ।
उच्यते-अहोरात्रं यावदेव सैव तिथि: तत्तिथित्वेनाऽऽराधनायां प्रमाणीकार्या । अत एवात्र प्राक् तत्र तत्र शास्त्रे च प्रमाणतया पाराशरस्मृतिवचनमप्युपन्यस्तम् -
'आदित्योदयवेलायां या स्तोकापि तिथिर्भवेत् ।। सा सम्पूर्णेति मन्तव्या प्रभूता नोदयं विना ॥' इति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org