________________
ग्रन्थत्रयी
अत्र सम्पूर्णेति - अहोरात्रव्यापिनीत्यर्थः । तथा च यस्मिन् रव्यादिलक्षणे दिवसे सूर्योदयवेलायां या तिथिर्भवेत् सा तिथिरेव तत्र दिने प्रमाणतयाऽहोरात्रव्यापिनी मन्तव्या । तदग्रेतना तिथिस्तत्र दिने यदि प्रभूताऽपि स्यात्तथापि सूर्योदयवेलायां तस्या असत्त्वेन तत्र दिने सा नैव मन्तव्या । यथा- प्रागुक्ते भौमवासरे पञ्चम्येव सम्पूर्णा मन्तव्या न तु प्रभूताऽपि षष्ठी, सूर्योदये तस्या अभावात् ।
७४
नन्वेवं भौमवासरे प्रभूता वर्तमाना षष्ठ्यपि पञ्चमीत्वेनैव मन्तव्येति मिथ्याज्ञानापत्तिः, पञ्चमीत्वाभाववत्यां षष्ठ्यां पञ्चमीत्वज्ञानादिति चेत् ।
न । अभिप्रायापरिज्ञानात् । न हि वयं षष्ठी पञ्चमीत्वेन मन्तव्येति ब्रूमः । किन्तु यस्मिन् रव्यादिवारे सूर्योदयवेलायां या तिथि: स्यात् तस्मिन् रव्यादिदिने तद्दिनव्यापिनी सैव तिथिर्मन्तव्या नान्येति । तथा च भौमवासरे सूर्योदयवेलायां पञ्चमीसत्त्वेन भौमवासरे भौमवासरव्यापिनी पञ्चम्येव मन्तव्या न षष्ठीति । सूर्योदयवेलायां पञ्चमीमत्येव भौमदिने पञ्चमीज्ञानान्न मिथ्याज्ञानमपि । प्रत्युत तत्र दिने षष्ठीतिथिरिति मन्तव्यतायामेव मिथ्याज्ञानं स्यात्, टिप्पनके सूर्योदयवेलायां भौमे षष्ठ्यभावादिति ।
ननु तथापि तत्र दिने विद्यमानाऽपि षष्ठी न षष्ठीत्वेन मन्तव्या । किन्तु पञ्चमीत्वेन मन्तव्येत्यर्थादेव किं न प्राप्तमिति चेत् ।
नियमलक्षणानुरोधेन प्राप्यताम् नाम, तथा का नो हानि: ? । प्रत्युतेष्टापत्तिरेव तत्रार्थ इति बोध्यम् । तथा चाऽहोरात्रं यावदेव सैव तिथिः तत्तिथित्वेनाऽऽराधनायां प्रमाणतया मन्तव्येति सिद्धम् ।
ननु टिप्पनक औदयिक्या अपि तिथेः क्वचिदेवाहोरात्रव्यापित्वं न तु सर्वत्रेति तस्या अहोरात्रव्यापित्वमन्तव्यतायामारोपापत्तिरिति चेत् ।
न । इष्टापत्तेः । टिप्पनके तिथेरहोरात्रव्यापित्वाभावेऽप्याराधनायां तस्या अहोरात्रव्यापित्वमन्तव्यताया इष्टवात् । प्रमाणप्राप्तस्याऽऽरोपस्याऽदूषणत्वात्, अपि तु भूषणत्वात् । किञ्चैवमनङ्गीकारे तत्तत्तिथिनिमित्तकतत्तत्तिथिदिनसम्बन्धिपोषधादिव्रतनियमस्य टिप्पनकोक्ततत्तत्तिथिभोगकालव्यापित्वमेव त्वया स्वीकार्यम्, निमित्ताभावे नैमित्तिकस्याप्यभावादिति तस्याहोरात्रादिव्यापित्वं शास्त्रोक्तं व्याहन्येत वा विराध्येत वा । शास्त्रे च पौषधादिव्रतनियमस्याहोरात्रादिप्रतिबद्धत्वमेव । तथा हि-यथा पौषधस्य 'जाव अहोरत्तं पज्जुवासामि' एवं 'दिवसपोसहं'पि । नवरं - 'जाव दिवसं पज्जुवासामि' त्ति भणइ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org