________________
७५
पर्युषणातिथिविनिश्चयः ॥ रात्रिपौषधमप्येवम् । नवरं-'मज्झण्हाओ परओ जाव दिवसस्स अंतोमुहुत्तो ताव घिप्पइ तहा दिवसं सेसं रत्तिं पज्जुवासामि' त्ति भणइ । इत्यादिवचनैरहोरात्रप्रतिबद्धत्वं दिवसप्रतिबद्धत्वं रात्रिप्रतिबद्धत्वं वा ।
एवमन्येषां व्रतनियमानामपि अहोरात्रादिप्रतिबद्धत्वमेव । न तु कस्यापि तत्तत्तिथिनिमित्तकस्य व्रतनियमस्य शास्त्रे टिप्पनकोक्ततत्तत्तिथिभोगकालमात्रप्रतिबद्धत्वमस्ति । तथा चैतदपि सर्वमाराधनायां तिथेरहोरात्रव्यापित्वमन्तव्यतामेव प्रमाणयति । शास्त्रोक्ताहोरात्रादिव्यापितत्तत्तिथिनिमित्तकतत्तव्रतनियमाराधनायां तिथेनिमित्ततया तिथेरेव तत्र सर्वत्र प्रधानत्वम् ।
"तिथिः शरीरं तिथिरेव कारणं, तिथिः प्रमाणं तिथिरेव साधनम्" ।
इति लल्लोक्तिरप्यत्र भावनीया । तथा च टिप्पनके तिथेः तत्तदहोरात्रदिवसरात्र्याद्यन्यतमविभागव्यापित्वाभावे तत्तत्तिथिनिमित्तकाराधनाया अपि तत्तदहोरात्रादिव्यापित्वं न स्यादेवेति टिप्पनकेऽहोरात्रव्यापित्वाभावेऽप्याराधनायां तिथेरहोरात्रव्यापित्वमेव मन्तव्यमिति ।
एवं 'से णं चउद्दसी अट्ठमी पुनिमासिणी सुपडिपुन्नं पोसहं सम्म अणुपालित्ता भवई' इत्यत्र; एवं
'यावज्जीवं विशेषेण सोऽष्टमी च चतुर्दशीम् । प्रत्याख्यानपौषधादि-तपसाऽऽराधयत्यलम् ॥
इत्यादौ च, प्रत्याख्यान-पौषधादितपसा चतुर्दश्यष्टम्यादितिथेराराध्यत्वं कथितम् । तत्र चतुर्दश्यादितिथिः टिप्पनके यावद् घटिकाप्रमाणा स्यात् तावद्धटिकाप्रमाणकाल प्रतिबद्धैव यदि तदाराधनास्यात्तदा षष्टिघटिकाप्रमाणाऽहोरात्रप्रतिबद्धपौषधादिकाराधनायाश्चतुर्दश्यादितिथिसम्बद्धत्वं नैव स्यात् । न हि चतुर्दश्यादितिथि: सर्वदा षष्टिघटिकाप्रमाणा क्वापि टिप्पनके विद्यमानोपलभ्यते । जैनशास्त्रानुसारेण तु न काऽपि तिथि: सम्पूर्णाहोरात्रप्रमाणा भवति । किन्तु द्वाषष्टितमभागोनाहोरात्रप्रमाणैव । तथा च तिथेराराधनायामहोरात्रव्यापित्वमन्यतायामेव सर्वं सञ्जाघटीतीति बोध्यम् ।
'छण्हं तिहीणं मॉमि का तिही अज्ज वासरे' ॥ इति श्राद्धदिनकृत्यवचनादप्याराधनायां तिथेरहोरात्रव्यापित्वमन्तव्यतापि स्पष्टैव । अन्यथा एकस्मिन् रव्यादिदिने तिथिद्वयमन्तव्यतायां तिथेमिश्रणभावापत्त्याऽऽराधनायाम
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org