________________
७६
ग्रन्थत्रयी व्यवस्थितत्वमनियतत्वं च स्यात् । सूर्योदयवेलायां स्तोककालीनतिथिसंयुक्तेऽपि रव्यादिदिने-अद्य अमुका तिथिर्वर्तते, अद्य अमुकतिथिव्रतं मया विहितमिति-सर्वजनप्रसिद्धव्यवहारविलोपापत्तेश्च महदसमञ्जसं च स्यादिति ।
इत्थं च लोकव्यवहारेऽप्येकस्मिन् दिने एकैव तिथिर्व्यवहियते । इत्येकस्मिन् रव्यादिदिने टिप्पनके तिथिद्वयप्राप्तौ तिथित्रयप्राप्तौ वा तत्र दिने का तिथिर्व्यवहर्त्तव्येत्यत्रापि नियामकमिदमेव-'आदित्योदयवेलायाम्' इत्यादि वचनम् ।
इत्थमेव चेदं टिप्पनकवचनापेक्षया विशेषवचनमप्यभिधीयते । सामान्यवचनं विशेषवचनेन बाध्यते । तथाहि-टिप्पनकवचनं हि प्रागुक्ते 'सोमवासरे साधिकैकघटिकां यावत् चतुर्थी मन्तव्या तदनु च तत्रैव दिने साधिका अष्टपञ्चाशद्धटिका यावत् पञ्चमी मन्तव्या । भौमवासरे च षोडशपलानि यावत् पञ्चमी मन्तव्या तदनु च तत्रैव दिने साधिकाः सप्तपञ्चाशद्धटिका यावत् षष्ठी मन्तव्या तदनु च तत्रैव दिने साधिके द्वे घटिके यावत् सप्तमी मन्तव्येति ज्ञापयति' । तत्र चाऽऽदित्योदयवेलाया' मित्यादि विशेषवचनं चैवं ज्ञापयति यद्-व्यवहारादौ सोमवासरे टिप्पनके सूर्योदयवेलायां चतुर्थ्या एव सत्त्वेन सम्पूर्णेऽपि सोमवासरे चतुर्युव मन्तव्या । न तु टिप्पनके तत्रैव दिने प्रभूताऽपि वर्तमाना पञ्चमी । व्यवहारे आराधनायां च सूर्योदयस्पशिन्या एव तिथेरहोरात्रव्यापित्वस्य गणनीयत्वात् । एवं भौमवासरेऽपि पञ्चम्येव सम्पूर्णा भौमदिनव्यापिनी मन्तव्या । न तु टिप्पनके तत्रैव दिने वर्तमानाऽपि षष्ठी सप्तमी वा। तयोस्तत्र दिने सूर्योदयास्पर्शित्वादिति ।
न च पर्वाराधनाया अनौदयिक्यामपि तिथौ सम्भवेन-'उदयंमि जा तिही सा पमाण' मित्यादिना तिथावौदयिकत्वनियमस्य प्रयोजनाभावेन वैयर्थ्यमिति शक्यम् ।
__ औदयिक्यामेव तिथौ पर्वाराधनाकरणस्य कर्मनिर्जराहेतुत्वस्य ज्ञानिभिदृष्टत्वेन तथैव-'उदयंमि जा तिही सा पमाण' मित्यादिना तदुपदेशात् । नियमेन दृष्टकार्यादर्शनेऽप्यदृष्टकार्योत्पत्तेरवश्यं कल्पनीयत्वात् । कारणकूटात्मकसामग्र्या एकदेशवैकल्येऽपि फलाभावस्य सर्वतन्त्रसिद्धत्वाच्च ।
एतेन-तिथिर्द्विविधा-पूर्णा सखण्डा च । सूर्योदयमारभ्य षष्टिनाडिकाव्याप्ता पूर्णा, एतदन्या सखण्डा । सखण्डाऽपि द्विविधा-शुद्धा विद्धा च । सूर्योदयमारभ्याऽस्तमयपर्यन्तं विद्यमाना शिवरात्र्यादौ निशीथपर्यन्तं विद्यमाना च शुद्धा, तदन्या विद्धा । वेधोऽपि द्विविधः-प्रातर्वेधः सायंवेधश्च । सूर्योदयोत्तरं षड्घटिका परिमिततिथ्यन्तरस्पर्शात्मकः प्रातर्वेधः । सूर्यास्तात्प्राक् षड्घटीमिततिथ्यन्तरस्पर्शः सायंवेधः । एकादशी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org