SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ आचार्यश्रीविजयनन्दनसूरिभगवत्प्रणीतं आचेलक्यतत्त्वम् ॥ 'मतिभेएण जमाली, पुव्वग्गहिएण होइ गोविंदो । संसग्गि सावगभिक्खू गोट्ठामाहिल अभिनिवेसे ॥ मतिभेदेन मिथ्यादृष्टिर्जायते यथा जमालिः । पूर्वगृहीतेन भवति मिथ्यादृष्टिर्यथा गोविन्दः । संसर्या यथा श्रावकभिक्षुः । अभिनिवेशेन यथा गोष्ठामाहिलः । तानि च निदर्शनानि सुप्रतीतानीति न कथ्यन्ते, इति चेत् । न । तथा वचने महाशातनाप्रसङ्गात् । एवं च श्रीजिनभद्र-सिद्धसेनादिप्रावचनिकप्रधानपुरुषाणामपि सिद्धोपयोगविषयक-विप्रतिपत्तिविषयकैकैकपक्षश्रद्धानवतामभिनिवेशित्वप्रसङ्गाच्च । एतच्चाऽनिष्टतमम् । अत एव चैतद्विषये समाहितं नयामृततरङ्गिण्यां श्रीमद्भिायविशारद-न्यायाचायः - 'यदपि प्रावचनिकानां जिनभद्र-सिद्धसेनप्रभृतीनां स्वस्वतात्पर्याविरुद्धविषये सूत्रे परतीर्थिकवस्तुवक्तव्यताप्रतिबन्धप्रतिपादनं तदप्यभिनिवेशनं चेत् तदा प्रावचनिकक्षतिरिति । तत्र परतीर्थिकपदं भिन्नपरम्परायाततात्पर्यानुसारि । परं अत एव नयाभिप्रायेण प्रवृत्तत्वादिति हेत्वभिधानोपपत्तिः, अत एव च नयाभिप्रायेणोभयसमाधानमस्माभिनिबिन्दौ विहितमिति ।' किञ्च किमिदं बाधितार्थश्रद्धानं अनाभोगाद् वा? आभोगाद् वा ? नाऽऽद्यः । अनाभोगाद् वितथश्रद्धानेऽपि सम्यग्दृष्टित्वाव्याहतेः । अनाभोगाद् गुरुनियोगाद् वा सम्यग्दृष्टेरपि वितथश्रद्धानस्य शास्त्रभणितत्वात् । तथा चोक्तं कर्मप्रकृतौ - 'सम्मट्ठिी जीवो उवइळं पवयणं तु सद्दहइ । सद्दहइ असब्भावे अजाणमाणो गुरुणियोगा ॥ १ ॥' इति । अस्याऽयमर्थः :- सम्यग्दृष्टिर्जीवो गुरुभिरुपदिष्टं प्रवचनं नियमात् यथावत् श्रद्धत्ते एव । तुरेवकारार्थो भिन्नक्रमश्च । यः पुनः सम्यग्दृष्टिरप्यसद्भावमसद्भूतं प्रवचनं श्रद्दधाति सोऽवश्यमजानन् स्वयं सम्यक्परिज्ञानविकलः सन् यद्वा गुरोस्तथाविधसम्यक्परिज्ञानविकलस्य मिथ्यादृष्टेर्वा जमालिप्रख्यस्य नियोगादाज्ञापारतन्त्र्यात् । नाऽन्यथा। ___अत्र च साहजिकमज्ञानं ज्ञानावरणविपाकोदयसान्निध्यमात्रादुपजायमानं न सम्यक्त्वप्रतिबन्धकम् । गुरुनियोगजनितं तु मध्यस्थस्य विनेयस्य नानामतदर्शिनो मिथ्यात्वप्रदेशोदयमहिम्ना विप्रतिपत्त्युपनीतप्रवचनार्थं संशयरूपं सम्यक्त्वप्रतिबन्धाभिमुखमपि 'तमेव सच्च' मित्याद्यालम्बनरूपोत्तेजकप्रभावान्न सम्यक्त्वं प्रतिबद्धमलमित्यज्ञानाद गुरुनियोगाद् वाऽसद्भूतार्थश्रद्धानेऽपि भावतो जिनाज्ञाप्रामाण्याभ्युपगन्तुर्न शुभात्मपरिणाम Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001472
Book TitleGranthtrai
Original Sutra AuthorVijayanandsuri
AuthorShilchandrasuri
PublisherJain Granth Prakashan Samiti
Publication Year1999
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy