________________
ग्रन्थत्रयी
निरुप(व)मधिइ-संघयणा चउनाणाइसयसत्तसंपण्णा । अच्छिद्दपाणिपत्ता जिणा जियपरिसहा सव्वे ॥ १ ॥ तम्हा जहुत्तदोसे पावंति न वत्थ-पत्तरहिया वि। . तदसाहणं ति तेसिं तो तग्गहणं न कुव्वंति ॥ २ ॥ तह वि गहिएगवत्था सवत्थतित्थोवएसणत्थं ति । अभिनिक्खमंति सव्वे तम्मि चुएऽचेलया हुंति ॥ ३ ॥
तथाऽपि सवस्त्रमेव तीर्थं सवस्त्रा एव साधवस्तीर्थे चिरं भविष्यन्ति इत्यस्याऽर्थस्योपदेशनं ज्ञापनं तदर्थं गृहीतैकवस्त्राः सर्वेऽपि तीर्थकृतोऽभिनिष्क्रामन्तीति । तस्मिश्च वस्त्रे च्युते काऽपि पतितेऽचेलका वस्त्ररहितास्ते भवन्ति न पुनः सर्वदा । इति तृतीयगाथार्थः ॥ इति महाभाष्यवचनेन च स्पष्टमेव प्रतिभाति यत् सर्वेषामपि जिनानां देवदूष्यच्यवनं भवतीति ।
'सया वि सेसाण तस्स ठिई' इति तु यदुक्तं तन्न विद्यः, बहुश्रुता वा तदभिप्रायं विदन्तु इति ॥
एवं चाऽत्राऽयं निष्कृष्टार्थः प्रतिभाति । तथा हि-सर्वेषामपि तीर्थकराणामचेलकत्वं सचेलकत्वं चेति द्वयमेवाऽस्ति । तत्र देवदूष्यवस्त्रावस्थिति यावत् सदचेलकत्वरूपमौपचारिकमचेलकत्वं सचेलकत्वं वा बोध्यम् । ततः परं चाऽसदचेलकत्वरूपं पारमार्थिकाचेलकत्वमेव बोध्यमित्यलम् ।।
इदं चाऽस्माभिः यथामति शास्त्रतात्पर्यमाकलय्य यथाप्रतिभातं दर्शितम् । परमिदमेव सत्यम्, द्वाविंशतेस्तीर्थकृतां सर्वदा सचेलकत्वादिप्रतिपादनं तु नियुक्तिकमेव निष्प्रमाणमेवेत्येवंविधो नाऽस्माकमाग्रहः । आग्रहो ह्यस्माकं
'तमेव सच्चं णिस्संकं जं जिणेहिं पवेइयं'
इत्यत्रैवेत्येवं प्रतिपादयन्ति । तत्त्वं तु केवलालोकशालिनो भगवन्त एव विदन्तीति दिक् ॥
नन्वेवमप्यत्र सचेलकत्वाचेलकत्वविवादे पक्षद्वयान्यतरस्य वस्तुनः शास्त्रबाधितत्वात् तदन्यतरश्रद्धानवतां शास्त्रबाधितार्थश्रद्धाने नाऽऽभिनिवेशिकमिथ्यात्वप्रसङ्गः । शास्त्रबाधितार्थश्रद्धानेऽप्यभिनिवेशित्वाभावे गोष्ठामाहिलादीनामपि तन्न स्यात् । उक्तं च तेषामाभिनिवेशिकम् । यदुक्तं व्यवहारभाष्ये षष्ठोद्देशके -
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org