________________
आचार्यश्रीविजयनन्दनसूरिभगवत्प्रणीतं आचेलक्यतत्त्वम् ॥
'पासे णं अरहा पुरिसादाणीए जावज्जीवं चीवरधारी हुत्था' इति भिन्नं सूत्रं कर्तव्यं स्यात् । न चैतत्कृतमित्यत एव ज्ञायते यत् श्रीवीरचरित्रोक्तस्यैव श्रीवीराचेलकत्वप्रतिपादकस्य 'समणे भगवं महावीरे संवच्छरं साहियं मासं चीवरधारी हुत्था तेण परं अचेलए' इति सूत्रस्य प्रायः शक्रस्तव-स्वप्नपाठकादिसूत्रवत् श्रीपार्श्वचरित्रेऽप्यनुवृत्तिरिति । एवं श्रीनेमिनाथचरित्रे श्रीनाभेयचरित्रे चाऽपि तदचेलकत्वप्रतिपादकसूत्रस्य तथाऽनुवर्तनं बोध्यम् ।
एतेन-ननु श्रीकल्पसूत्रे श्रीवीरस्यैव साधिकसंवत्सरादूर्ध्वमचेलकत्वं प्रतिपादितं, न शेषजिनानाम् । जम्बूद्वीपप्रज्ञप्तौ तु श्रीनाभेयस्याऽपि तत्प्रतिपादितमिति कथं न परस्परं विरोधः ?। यतो यदि श्रीनाभेयस्याऽप्यचेलकत्वं श्रीकल्पसूत्रसम्मतं स्यात्, तदा श्रीवीरचरित्राधिकारे तत्प्रतिपादकसूत्रवत् श्रीनाभेयचरिताधिकारेऽपि तत्प्रतिपादकसूत्रमवश्यं स्यात् । न चैतदस्तीति न तत् श्रीकल्पसूत्रसम्मतमितीत्यपि निरस्तमेव । श्रीवीरचरित्राधिकारास्थाचेलकत्वप्रतिपादकसूत्रस्यैव प्राय: श्रीनाभेयचरित्राधिकारेऽप्यनुवृत्तेः, श्रीनाभेयस्याऽप्यचेलकत्वस्य श्रीकल्पसूत्र-सम्मतत्वादेवेति । इत्थं च श्रीपार्श्वनाथादिचरित्रेऽपि प्रायस्तदनुवृत्तेरेव श्रीपार्श्वनाथप्रभृतीनामप्यचेलकत्वमस्त्येवेति श्रीकल्पसूत्रादपि निर्विरोधमेव कथं न प्रतीतिगोचरः स्यात् ?
किञ्च अच्छिद्रपाणयस्तीर्थकराः । अपि चन्द्रादित्यौ यावच्छिखा गच्छति, न तु पानीयबिन्दुरप्यधः पतति । चतुर्विधज्ञानबलाच्च ते संसक्तासंसक्तमन्नं सत्रसमत्रसं च जलादि ज्ञात्वा निर्दोषमेवोपाददते इति नैषां पात्रधारणे गुणः ।
वस्त्रं तु दीक्षाकाले तीर्थकरा अपि गृह्णन्ति । यदाहुः - 'सव्वे वि एगदूसेण निग्गया जिणवरा चउव्वीसं । न य नाम अण्णलिंगे न य गिहिलिगे कुलिंगे वा ।' पारमषं च -
'सेवेमि जे अईया जे अणागया जे अ वट्टमाणा ते सव्वे "सोवहिधम्मो देसियव्वो"त्ति कट्ट एगं देवदूसमादाय निक्खमिसु निक्खामंति निक्खमिस्संति वा ।'
'प्रव्रज्योत्तरकालं च सर्वबाधासहत्वान्न वस्त्रेण प्रयोजनमिति यथाकथञ्चित्तदपैतु नाम' इति श्रीयोगशास्त्रतृतीयप्रकाश-चतुर्थशिक्षाव्रतरूपातिथिसंविभागव्रताधिकारवृत्तिवचनेन ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org