________________
ग्रन्थत्रयी देवदूष्यपतनं भवतीति किं न प्रतीयते ? इति ।
ननु श्रीकल्पसूत्रे यथा भगवतो महावीरस्य साधिकसंवत्सरं यावत् चीवरधारित्वस्य, ततः परं चाऽचेलकत्वस्य प्रतिपादनेन देवदूष्यच्यवनं ज्ञापितं, न तथाऽन्येषां जिनानां तत्तच्चरिताधिकारे किञ्चित्कालं चीवरधारित्वं, ततः परं चाऽचेलकत्वं प्रतिपादितमित्यत एव कथं न निश्चीयते-यत्-सर्वेषां जिनानां देवदूष्यपतनं न भवतीति ?। एवं चैतदनुसार्येव -
'वीरस्स वरिसमहिअं सया वि सेसाण तस्स ठिई' ॥ इति सप्ततिशतस्थानकवचनमपीति चेत् ।
न । एवं श्रीनाभेयस्याऽपि जिनस्य श्रीकल्पसूत्रेऽचेलकत्वस्याऽज्ञापितत्वेन सर्वदैव देवदूष्यावस्थितिलाभेन पूर्वोक्तजम्बूद्वीपप्रज्ञप्तिवचनस्य श्रीकल्पसूत्रेण सह विरोधरूपदूषणापत्तेः । एकशास्त्रावलम्बनेनाऽपरशास्त्रदूषणस्य महाशातनारूपत्वोक्तेश्च उभयशास्त्रसमाधानस्यैव न्याय्यत्वात् । प्रत्युत श्रीकल्पसूत्रादेव श्रीपार्श्वनाथप्रभृतीनामपि श्रीवीरस्वामिवत् कञ्चित् कालं चीवरधारित्वं ततः परमचेलकत्वं च कथं न प्रतीयते ?।
प्रायो यथायोगं पूर्वपूर्वसूत्रस्योत्तरोत्तरानुवृत्तिकल्पनात् । अत एव च पार्श्वनाथादिचरितं सक्षेपवाचनयैव तत्रोक्तं न तु श्रीवीरचरित्रवत् विस्तरवाचनयाऽपि । यत्र यत्राऽधिकारसाम्यं तत्र तत्र प्रायः पूर्वसूत्रस्यैवाऽनुवृत्तेः । यत्र यत्र नक्षत्र-मासगृहवासपर्याय-च्छद्मस्थपर्याय-केवलिपर्याय-गणधरादिसङ्ख्याप्रभृत्यधिकारे भिन्नता तत्र तत्रैव च विशेषसूत्ररचनात् ।
तथा च यथा श्रीवीरस्यभगवतः श्रीपार्श्वनाथजिनस्य च मिथश्छद्मस्थपर्यायकालस्य भिन्नतया तत्प्रतिपादकं सूत्रमपि 'समणे भगवं महावीरे साइरेगाई दुवालसवासाइं निच्चं वोसट्टकाए चियत्तदेहे' इति श्रीवीरचरित्राधिकारे 'पासे णं अरहा पुरिसादाणीए तेसीइं राइंदियाई निच्चं वोसट्टकाए चियत्तदेहे' इति श्रीपार्श्वचरित्राधिकारे च भिन्न भिन्नं, तथा चीवरधारित्वाचेलकत्वप्रतिपादकं सूत्रं यथा श्रीवीरचरित्राधिकारे श्रीवीरविषयकं भिन्न, न तथा श्रीपार्श्वचरिताधिकारे श्रीपार्श्वविषयकं तत्प्रतिपादकं सूत्रं भिन्नमस्ति ।
__यदि श्रीपार्श्वनाथस्य भगवतः सर्वदैव देवदूष्यावस्थितिः स्यात् तदा तत्प्रतिपादकमपि श्रीवीरचरित्राधिकारवत् श्रीपार्श्वचरिताधिकारेऽपि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org