________________
आचार्यश्रीविजयनन्दनसूरिभगवत्प्रणीतं आचेलक्यतत्त्वम् ॥ श्रीमत्सुगृहीतनामधेयभगवद्हरिभद्रसूरिपादीयावश्यकवृत्तिवचनरूपप्रमाणस्य जागरूकत्वादिति ॥
___ अथ देवदूष्यपतनं किमाद्यान्तिमयोरेव जिनयोरुताऽन्येषामपि जिनानामिति विचार्यते। तत्र 'तीर्थकरा असदचेलाः, देवदूष्यपतनानन्तरं सर्वदैव तेषां वस्त्राभावात्' इति बृहत्कल्पवृत्तिवचनात्, 'तीर्थकरा जिनाः असच्चेला: सन्तोऽचेला भवन्ति शक्रोपनीतदेवदूष्यापगमानन्तर'मिति पञ्चाशकवृत्तिवचनाच्च सर्वेषामपि जिनानां देवदूष्यपतनं भवतीत्यवसीयते । सामान्येनैव तीर्थकराणामसदचेलकत्वस्य देवदूष्यपतनस्य च तत्रोक्तत्वात् । अन्यथा हि, इदं च येषां तीर्थकराणां देवदूष्यपतनं भवति तानाश्रित्य बोध्यमित्यर्थकमपि अन्यद् वाक्यं प्रयुज्येत ।
किञ्च, 'तित्थगर असंतचेला' इत्यत्र बाधकाभावेन तीर्थकरत्वावच्छेदेनैवाऽसदचेलकत्वस्याऽन्वयो वाच्यः । न च तादृशान्वये नियामकाभाव इति वाच्यम् । असति बाधके उद्देश्यतावच्छेदकावच्छेदेन विधेयान्वय इति नियमस्यैव सर्वानुमतस्य नियामकत्वात् । न चाऽत्र किञ्चिद् बाधकमानमस्ति ।
इत्थं च तीर्थकरत्वस्याऽसदचेलकत्वव्याप्यतालाभात्, 'तीर्थकरा असदचेला एवे'त्यवधारणमपि नाऽसङ्गतमिति बोध्यम् । देवदूष्यापगमविशेषणविशेषिततीर्थकरत्वावच्छेदेनैवाऽसदचेलकत्वबोधे तात्पर्याच्च नाऽत्र पूर्वोक्तोऽपि दोषः । इत्थं चैतदभिप्रायकमेव 'असंता चेला तित्थगरा । ते एगंतेण असंताचेला चेव' इति पञ्चकल्पचूर्णिवचनावधारणमपि । एवं
'सव्वहा जिणिंदा य खंधाओ देवदूसं चवइ तओ चेव आरब्भ' इत्यध्यात्ममतपरीक्षायामपि सामान्येनैव जिनेन्द्राणां देवदूष्यच्यवनस्य प्रतिपादितत्वेन सर्वेषामपि जिनानां देवदूष्यच्यवनं भवतीति प्रतिभाति ।
किञ्च, सूत्रे हि तीर्थकृतामचीवरत्वं कदाचित् सर्वदा वा ?। कदाचिच्चेत् को वा किमाह ? कदाचिदस्माकमप्यस्याऽभिमतत्वात् । अथ सर्वदा । तन्न । 'सव्वे वि एगदूसेण निग्गया जिणवरा उ चउवीस मिति वचनादिति । श्रीउत्तराध्ययनबृहद्वत्तौ अचेलपरीषहाध्ययने । महार्थकर्मप्रवादपूर्वोद्धृतपरीषहाध्ययनाधीतस्याऽपि सचेल त्वस्याऽनङ्गीकर्तृन् प्रति तत्साधकवचनोपक्रमे इत्युक्तौ सर्वेषामपि तीर्थकृतां सर्वदाऽचीवरत्वस्य निषेधात्, कादाचित्काचीवरत्वस्य चाऽभ्युपगमात्, सर्वेषामपि जिनानां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org