________________
ग्रन्थत्रयी
न । पूर्ववद् बाधकाप्रतिसन्धानादिष्टापत्तेः । _ 'आचेलको धम्मो पुरिमस्स य पच्छिमस्स य जिणस्स ।' इति बृहत्कल्पवचनेनाऽऽचेलक्यव्यवहारस्यैवौत्सर्गिकत्वेऽपि
'सचेले याऽवि एगया' इत्युत्तराध्ययनोक्तेः कारणिकस्य,
"जिनकल्पिकादयस्तु सदैव सचेलका इति दर्शयन्नाह' इत्यष्टमबोटिकनिह्नवाधिकारप्रसङ्गे विशेषावश्यकबृहद्वृत्त्यवतरणग्रन्थेन च प्रासङ्गिकस्य सचेलकत्वव्यवहारस्याऽप्युपलम्भाच्चेत्यलम् ।
एवं चाऽध्यात्ममतपरीक्षोक्तेस्तीर्थकराणां सदचेलकत्वमप्यस्तीति सिद्धम् । इत्थं च 'तित्थगर असंतचेला' इत्यत्र 'तीर्थकरा एवाऽसदचेला' इत्यवधारणं कार्य; तीर्थकरभिन्नेषु असदचेलकत्वस्याऽभावात् । न तु 'तीर्थकरा असदचेला एवेति । उक्तरीत्या तीर्थकरेषु सदचेलकत्वस्याऽपि व्यवस्थापनात् ।
नन्वत्राऽप्यवधारणेऽसदचेलकत्वस्य तीर्थकरत्वव्याप्यत्वं लभ्यते । तच्च नोपपद्यते । प्रत्येकबुद्धेषु तीर्थकरत्वाभावेऽपि असदचेलकत्वस्य सद्भावात् । तेषां द्रव्यलिङ्गस्याऽभावात् । अत एव च तेषां 'रूप्पं पत्तेयबुहा' इत्यनेन तृतीयभङ्गतुल्यत्वमुक्तं सङ्गच्छते । अन्यथा द्रव्यलिङ्गसद्भावे गच्छगत-गच्छनिर्गत-स्थविरकल्पिकजिनकल्पिकादिसाधुवत् 'रूप्यं शुद्धं टङ्कं समाहताक्षर'मिति चतुर्थभङ्गतुल्यतैवोच्यते इति चेत् ।
न। प्रत्येकबुद्धानां द्रव्यलिङ्गाभावस्याऽन्तर्मुहूर्त्तमात्रकालभावित्वेन तावन्मात्रकालं यावत् सतोऽप्यसदचेलकत्वस्याऽल्पकालीनत्वेनाऽविवक्षयैव दोषाभावात्।
अत एव च स्याद्वादकल्पलतायामपि निरुपचरितव्यवहारेण च स्कन्धाद् देवदूष्यापगमे भगवत्स्वेवाऽचेलकत्वव्यवस्थितेरित्यत्रैवकारोक्तिः सङ्गच्छते । 'मुख्यं तु अचेलत्वं जिनानामेवाऽऽसी'दिति सावधारणं विशेषावश्यकवृत्तिवचनमपि च निर्दोषम् ।
न च प्रत्येकबुद्धानां द्रव्यलिङ्गाभावस्याऽन्तर्मुहूर्त्तमात्रकालीनत्वे किं प्रमाणमिति वाच्यम् ।
'तृतीयभङ्गतुल्याः प्रत्येकबुद्धा अन्तर्मुहूर्तमानं कालमगृहीतद्रव्यलिङ्गाः' इति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org