________________
आचार्य श्रीविजयनन्दनसूरिभगवत्प्रणीतं आचेलक्यतत्त्वम् ॥
५९
तत्र रजोहरणं मुखवस्त्रिका चेति द्विविध उपधिः केषाञ्चित् । अन्येषां तु कल्पेन सह त्रिविधः । कल्पद्वयेन तु सह चतुर्विधः । कल्पत्रयेण सह पञ्चविधः, शक्तिवैचित्र्यात् पात्रमात्रविषयकलब्धिभाजां द्रष्टव्यः ।
येषां तु वस्त्रमात्रविषयिणी लब्धिस्तेषां रजोहरणं, मुखवस्त्रिका,
पत्तं पत्ताबंधो पायट्टवणं च पायकेसरिया । पडलाइ रत्ताणं च गोच्छओ पायनिज्जोगो ॥ १ ॥ इति गाथयोक्तः सप्तविधः पात्रनियोग इत्येवं नवविध उपधिः ।
तदुभयविषयकलब्धिरहितानां च यथाशक्ति कल्पेन सह दशविधः । कल्पद्वयेन सहैकादशविधः । कल्पत्रयेण तु समं द्वादशविध उपधिर्ज्ञेय इति । इति तद्वृत्तिः ।
इदमेव चाऽत्रोक्तमुपचरितव्यवहारादचेलकत्वं सदचेलकत्वमिति गीयते । तथा च तीर्थकराणां सचेलकत्वप्रतिपादनं तु निष्प्रमाणमेव प्राय: प्रतिभाति; देवदूष्यवस्त्रावस्थिति यावत् सदचेलकत्वरूपाचेलकत्वस्य पूर्वोक्तवचनेन सद्भावात् । देवदूष्यपतनानन्तरं तु असदचेलकत्वरूपाचेलकत्वस्य पूर्वोक्तबृहत्कल्पादिवचनेन सद्भावाच्चेति । तदिदमेव च बृहत्कल्पाद्युक्तमसदचेलकत्वरूपाचेलकत्वं निरुपचरितव्यवहारादचेलकत्वमिति गीयत इति ।
नन्वध्यात्ममतपरीक्षायां देवदूष्यावस्थितिं यावत्तीर्थकराणां सदचेलकत्वरूपौपचारिकाचेलकत्वोक्तावपि तदानीं वस्त्रसद्भावेन निरुपचरिताचेलकत्वाभावेन मुख्यया वृत्त्या सचेलकत्वस्यैव सद्भावेन सचेलकत्वकथनेऽपि को दोष इति चेत् ।
सत्यं; परं न तीर्थकराणां सचेलकशब्दोल्लेखेन सचेलकत्वव्यवहारः प्रायः कुत्राऽप्युपलभ्यते । तथाऽप्यत्र देवदूष्यावस्थितिं यावत् तीर्थकृतां सचेलकत्वस्याऽपि प्रतिपादनाग्रहे न किमपि बाधकं प्रतिभाति ।
नन्वेवं सति प्रथमान्तिमजिनतीर्थसाधूनामपि श्वेतमानोपेतत्वादिविशेषणविशिष्टस्याऽपि वस्त्रस्य सद्भावेनौपचारिकाचेलक्यसत्त्वेऽपि मुख्यया वृत्त्या सचेलकत्वस्यैव सद्भावेन सचेलकत्वव्यवहारः स्यात् । न च सोऽप्युपलभ्यते प्राय: कुत्राऽपि । 'द्वाविंशतिजिनतीर्थसाधूनां सचेलकत्वमपि अचेलकत्वमपि, प्रथमान्ति-मजिनतीर्थसाधूनां चाऽचेलकत्वमेवे'त्येवं रूपस्यैव व्यवहारस्य तत्र तत्रोपलम्भादिति चेत् ।
Jain Education International
For Private & Personal Use Only
ww
www.jainelibrary.org