________________
ग्रन्थत्रयी वचनेन सचेलकत्वस्यैव सिद्धिः, सदचेलकत्वस्याऽपि कल्पनाविषयत्वात् ।
न च, साधकप्रमाणाभावेऽपि बाधकप्रमाणाभावादेव देवदूष्यवस्त्रावस्थितौ सत्यां तीर्थकराणां सचेलकत्वं सेत्स्यतीति वाच्यम् ।
बाधकप्रमाणाभावमात्रस्य सचेलकत्वनिश्चयाऽहेतुत्वात् । प्रत्युत साधकबाधकप्रमाणाभावसहकृतस्य साधारणधर्मादेर्दर्शनस्य परस्परविरुद्धावमर्शरूपसंशयप्रयोजकत्वेनाऽत्र च साधक-बाधकमानाभावसद्भाववत् सचेलकाचेलकोभयवृत्तिचीवरधारित्वरूपसाधारणधर्मज्ञानस्याऽपि सत्त्वात् देवदूष्यानपगमं यावत्तीर्थकराः सचेलका अचेलका वा, इत्याकारकस्य संशयस्यैवापत्तेः । संशयश्चाऽत्र मानसो वा शाब्दबोधरूपो वेति त्वन्यदेतत् ।
किञ्चाऽत्र सदचेलकत्वरूपाऽचेलकत्वप्रतिपादकं बाधकप्रमाणमपि वक्ष्यमाणवचनरूपमस्त्येवेति तीर्थकराणां देवदूष्यावस्थितावपि सचेलकत्वं तु दुरापास्तमेवेत्यलम्॥
___अथाऽयं चाऽत्र परमार्थः प्रतिभाति । तथा हि-देवदूष्यवस्त्रावस्थितावपि तीर्थङ्कराणां न सचेलकत्वं किन्तु अचेलकत्वमेवोक्तमध्यात्ममतपरीक्षायां श्रीमद्भिायविशारदन्यायाचाः । तथा हि -
उवयारेण अचेला सेसमुणी सव्वहा जिणिंदा य । खंधाओ देवदूसं चवइ तओ चेव आरब्भ ॥ १ ॥ इति ॥
भगवन्तो हि वस्त्र-पात्रकार्यकारिलब्धिभाजो निरुपमधृतिसंहनना-श्चतुर्ज्ञानातिशययुक्ता विनाऽपि वस्त्र-पात्रादिकं संयमं निर्वोढुं क्षममाणा न कारणाभावात् तदुपाददते । केवलं सवस्त्र-पात्रो धर्मः प्ररूपणीय इति देवेन्द्रेण स्कन्धाहितं देवदूष्यमादाय निष्क्रामन्तीति देवदूष्यवस्त्रावस्थिति यावत्तेऽप्युपचारतोऽचेलास्ततः परं मुख्यया वृत्त्येति तत्त्वम् ।
जिनकल्पिक-स्वयम्बुद्धादयस्तु सर्वकालमुपचरिताचेला एव, उपधिद्वयस्य सर्वदा भावात् । अत एव तानुद्दिश्याऽयमुपधिविभागः - .
दुग-तिग-चउक्क-पणगं णव-दस-इकारसवे(सेव) बारसगं ।
एए अट्ठ विगप्पा जिणकप्पे हुंति उवहिस्स ॥ १ ॥ इति वचनोक्तो द्रष्टव्यः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org