________________
आचार्यश्रीविजयनन्दनसूरिभगवत्प्रणीतं आचेलक्यतत्त्वम् ॥
५७ न च, सामान्यवस्त्रस्थितेः सपक्षविपक्षोभयवृत्तित्वेन माऽस्तु सचेलकत्वसाधकत्वं, देवदूष्यरूपवस्त्रावस्थितेस्तु सचेलकत्वसाधकता स्यादित्यपि वाच्यम् ।
देवदूष्यवस्त्रावस्थितावपि तीर्थकराणां सचेलकत्वव्यवहारे प्रमाणाभावात् ।
किञ्च, द्वितीयपक्षानुसारिणां यत् पूर्वोक्तजम्बूद्वीपप्रज्ञप्ति-सप्ततिशतस्थानकवचनाभ्यां द्वाविंशतेजिनानां सचेलकत्वस्थापनं, तदपि विचारणीयम् । जम्बूद्वीपप्रज्ञप्तिवचनेन सह सप्ततिशतस्थानकवचनस्य विरोधशालित्वभासनात् ।
यतः श्रीजम्बूद्वीपप्रज्ञप्तिवचनेन श्रीनाभेयस्य भगवतः साधिकसंवत्सरादूर्ध्वमचेलकत्वं लभ्यते । सप्ततिशतस्थानकवचनेन तु श्रीवीरस्यैव भगवतोऽचेलकत्वं लभ्यते, न शेषाणामिति । तथा च द्वितीयपक्षानुसारिणां सप्ततिशतस्थानकवचनप्रामाण्यानुसारेण त्रयोविंशतेरपि जिनानां सचेलकत्वं वाच्यं स्यात्, न तु द्वाविंशतेरेव ।
न च, जम्बूद्वीपप्रज्ञप्तिवचनेन श्रीनाभेयस्यापि भगवतोऽचेलकत्वलाभेन 'सया वि सेसाण तस्स ठिई' इत्यत्र 'शेषाणा'मित्यस्य द्वाविंशतेरेव जिनानामित्यर्थस्यैव कल्पनान्न कोऽपि विरोध इति वाच्यम् ।
'सक्को अ लकखमूलं सुरदूसं ठवेइ सव्वजिणखंधे । वीरस्स वरिसमहियं सया वि सेसाण तस्स ठिई ॥'
इत्यत्र 'वीरस्स' इत्यनेन श्रीवीरस्यैव गृहीतत्वेन 'सेसाण' इत्यस्य श्रीवीरातिरिक्तजिनत्रयोविंशतिपरत्वकल्पनाया एवौचित्यात् ।
'सक्को अ लक्खमुल्लं'त्ति-शक-इन्द्रश्च लक्षमूल्यं, 'सुरदूसं ठवइ सव्वजिणखंधे' त्ति-देवदूष्यवस्त्रं स्थापयति सर्वजिनस्कन्धे । 'वीरस्स वरिसमहियंति-वीरस्यचरमजिनपतेर्वर्षमधिकं-किञ्चिदधिकं तदेव दर्शयति । उक्तं च कल्पसूत्रे-'संवच्छरं साहिअं मासं चीवरधारी होत्था' इति । मासैकेनाऽधिकं वर्ष श्रीवीरेण वस्त्र धृतम् । 'सया वि सेसाण तस्स ठिई'ति-शेषाणां-शेषजिनानां-(२३)त्रयोविंशतिजिनानां सदाऽपियावज्जीवमपि, तस्य वस्त्रस्य स्थितिज्ञेयेति गाथार्थः । इत्येवं वृत्तिकृताऽपि तथैव व्याख्यातत्वाच्च ।
___ न च, तस्मिन् विरुद्धांशेऽनाभोगस्यैव कल्पना । तर्हि 'सया वि सेसाण तस्स ठिई' इत्यत्र सर्वांशेऽप्यनाभोगकल्पना किं न स्यात्, तादृशकल्पनानिवारकस्य कस्याऽप्यभावात् । क्रियतां वा येन केनाऽपि प्रकारेण विरोधपरिहारः । परं न तेन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org