________________
ग्रन्थत्रयी तीर्थकराणां सचेलकत्वमचेलकत्वं चेति द्वयमपि केनचित् प्रमाणान्तरेण सिद्धं स्यात् । न च किमपि तादृशं प्रमाणान्तरमिति ।
न चैवं तर्हि 'संताचेला भवे सेसा' इत्यस्याऽपि द्वितीयकल्पे 'शेषा मुनयः सदचेला एवे'त्येतावत्येवाऽर्थे तात्पर्य स्यात्, न तु पूर्वोक्तरूपेऽर्थे । एवं च सति तादृशस्याऽर्थस्य बाधितत्वमेव शेषमुनीनां सदचेलकत्वमात्रस्याऽभावादिति वाच्यम् ।
_ 'संताचेला भवे सेसा' इत्यस्य शेषमुनयो यद्यचेलका भवेयुस्तदा सदचेलका एवेति पूर्वोक्तार्थ एव तात्पर्यकल्पनात् । तत्र हि शेषमुनीनां -
'आचेलको धम्मो पुरिमस्स य पच्छिमस्स य जिणस्स । मज्झिमगाण जिणाणं होइ सचेलो अचेलो वा ॥' एवम्-'एगयाऽचेलए होइ सचेले वावि एगया ॥'
इत्यादिवचनेन सचेलकत्वमचेलकत्वं चेति द्वयमपि सिद्धमेवेति । पूर्वोक्ततादृशार्थकल्पनायां प्रतिबन्धाभावात् । न चैवं तीर्थकराणां सचेलकत्वमसदचेलकत्वं .. चेति द्वयं सिद्धमस्तीति न तत्र तथा तात्पर्यकल्पनेति ।
नन्वेवं तीर्थकरस्याऽपि भगवतः - 'उसभे णं अरहा कोसलिए संवच्छरं साहियं चीवरधारी होत्थ'त्ति ।
एवं-'समणे भगवं महावीरे संवच्छरं साहियं मासं जाव चीवरधारी हुत्था । तेण परं अचेले ।'
इत्यादिवचनेन सचेलकत्वमचेलकत्वं चेति द्वयमपि सिद्धमेवाऽस्तीति कथं न 'संताचेला भवे सेसा' इति सूत्रवत् 'तित्थगर असंतचेला' इत्यस्याऽपि सूत्रस्य पूर्वोक्ततात्पर्यार्थकल्पनेति चेत् । न । पूर्वोक्तवचनेनाऽचेलकत्वस्य सिद्धावपि सचेलकत्वस्यासिद्धेः ।
न च, चीवरधारित्वकथनेनैव सचेलकत्वस्य सिद्धिरिति वाच्यम् ।
चीवरधारित्वस्य सचेलकत्वाऽव्यभिचारित्वाभावात् । मध्यमजिनसाधुरूपसपक्षप्रथमान्तिमजिनसाधुरूपविपक्षोभयवृत्तित्वेन तस्य साधारणानैकान्तिकत्वात् ।
एतेन 'सया वि सेसाण तस्स ठिइ' इति वचनेनाऽपि सचलेकत्वसिद्धिः परास्ता । वस्त्रस्थितेः पूर्वोक्तरीत्या सचेलकत्वनियतत्वाभावात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org