Book Title: Granthtrai
Author(s): Vijayanandsuri, Shilchandrasuri
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 92
________________ पर्युषणातिथिविनिश्चयः ॥ प्रागभावानधिकरणत्वे सति तद्दिनप्रागभावाधिकरणदिनत्वम्' । अत्र विवक्षितपञ्चमीदिनप्रागभावाधिकरणदिनप्रागभावानधिकरणत्वस्य विवक्षितपञ्चमीदिनेऽपि सत्त्वात्तद्वारणाय विशेष्यदलम् । विवक्षितपञ्चमीदिन प्रागभावाधिकरणदिनत्वस्य च तृतीयादिनेऽपि सत्त्वात्तद्वाराणाय सत्यन्तं विशेषणदलम्। प्रागभावानधिकरणत्वं च 'प्रागभावाधिकरणत्वावच्छिनप्रतियोगिताकभेदवत्त्वम्' । तेन प्रागभावानधिकरणतृतीयादिनमादाय नातिप्रसङ्गः । तृतीयादिनस्य विवक्षितपञ्चमीदिनप्रागभावाधिकरणचतुर्थीदिनप्रागभावाधिकरणत्वेन विवक्षितपञ्चमीदिनप्रागभावाधिकरणतृतीयादिनप्रागभावानधिकरणत्वेऽपि तादृशप्रागभावाधिकरणत्वावच्छिनप्रतियोगिताकभेदवत्त्वाभावात्, तृतीयादिदिनवारणाय विशेषणदले विवक्षितपञ्चमीदिनोपादानम् । पञ्चम्यादिदिनवारणाय च विशेष्यदले तदुपादानमिति । अत्र पञ्चमीदिने तद्वर्षीय-तन्मासीय-तत्पक्षीयत्वमपि बोध्यम् । अन्यथा, अग्रिमवर्षीयाऽग्रिममासीयाऽग्रिमपक्षीयपञ्चमीदिनमादायाऽव्याप्तिप्रसङ्गादिति । अत्र 'पर्युषणापर्व भाद्रशुक्लौदयिकचतुर्थीदिनकर्त्तव्यताकं न वा?' इति विप्रतिपत्तिस्तु न सम्भवति । वादिप्रतिवादिनोरुभयोरपि पर्युषणापर्वण औदयिकभाद्रशुक्लचतुर्थीदिन कर्त्तव्यताकत्वस्य सम्मतत्वात् । विवादस्तहि कुत्र? टिप्पनके भाद्रशुक्लपञ्चमीवृद्धावाराध्यौदयिकपञ्चमीत्वेनोभयसम्मतटिप्पनकोक्तद्वितीयपञ्चमीदिनाव्यवहितपूर्वदिनस्याराधनायामौदयिकचतुर्थीदिनत्वेन प्रामाण्ये व्यपदेश्यत्वे चैव । तत्साधने चाऽस्माकं 'वृद्धौ कार्या तथोत्तरे'ति वचनं तदनुसारिशास्त्राबाधितप्रागुक्ताविच्छिनसुविहितपरम्परा च प्रमाणमित्यधिकमुपरिष्टात् । ___ एवमनुमानमपि तत्र प्रमाणम् । तथाहि-विवादापन्नो गुरुवासरो गतवर्षीयो रविवासरो वा, औदयिकचतुर्थीदिनः, आराध्यपञ्चमीतिथित्वेन प्रमाणदिनाव्यवहितपूर्वदिनत्वात् । यत्र यत्राराध्यपञ्चमीतिथित्वेन प्रमाणदिनाव्यवहितपूर्वदिनत्वं तत्र तत्रौदयिकचतुर्थीदिनत्वम् । यथा श्रावणमासे आराध्यपञ्चमीदिनाव्यवहितपूर्वस्मिन् भौमदिने औदयिकचतुर्थीदिनत्वम् । तथा चाऽयम् । तस्मात्तथेति । ____ अथात्र तावत् टिप्पनके भाद्रशुक्लपञ्चमीवृद्धौ टिप्पनकोक्तद्वितीयपञ्चमीदिनाव्यवहितपूर्वदिने गुरुवासरे एव पञ्चाङ्गोक्तप्रथमपञ्चमीमौदयिकी चतुर्थी गणयित्वा श्रीपर्यु Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176