________________
पर्युषणातिथिविनिश्चयः ॥ प्रागभावानधिकरणत्वे सति तद्दिनप्रागभावाधिकरणदिनत्वम्' ।
अत्र विवक्षितपञ्चमीदिनप्रागभावाधिकरणदिनप्रागभावानधिकरणत्वस्य विवक्षितपञ्चमीदिनेऽपि सत्त्वात्तद्वारणाय विशेष्यदलम् । विवक्षितपञ्चमीदिन प्रागभावाधिकरणदिनत्वस्य च तृतीयादिनेऽपि सत्त्वात्तद्वाराणाय सत्यन्तं विशेषणदलम्।
प्रागभावानधिकरणत्वं च 'प्रागभावाधिकरणत्वावच्छिनप्रतियोगिताकभेदवत्त्वम्' । तेन प्रागभावानधिकरणतृतीयादिनमादाय नातिप्रसङ्गः । तृतीयादिनस्य विवक्षितपञ्चमीदिनप्रागभावाधिकरणचतुर्थीदिनप्रागभावाधिकरणत्वेन विवक्षितपञ्चमीदिनप्रागभावाधिकरणतृतीयादिनप्रागभावानधिकरणत्वेऽपि तादृशप्रागभावाधिकरणत्वावच्छिनप्रतियोगिताकभेदवत्त्वाभावात्, तृतीयादिदिनवारणाय विशेषणदले विवक्षितपञ्चमीदिनोपादानम् । पञ्चम्यादिदिनवारणाय च विशेष्यदले तदुपादानमिति । अत्र पञ्चमीदिने तद्वर्षीय-तन्मासीय-तत्पक्षीयत्वमपि बोध्यम् । अन्यथा, अग्रिमवर्षीयाऽग्रिममासीयाऽग्रिमपक्षीयपञ्चमीदिनमादायाऽव्याप्तिप्रसङ्गादिति ।
अत्र 'पर्युषणापर्व भाद्रशुक्लौदयिकचतुर्थीदिनकर्त्तव्यताकं न वा?' इति विप्रतिपत्तिस्तु न सम्भवति । वादिप्रतिवादिनोरुभयोरपि पर्युषणापर्वण औदयिकभाद्रशुक्लचतुर्थीदिन कर्त्तव्यताकत्वस्य सम्मतत्वात् ।
विवादस्तहि कुत्र? टिप्पनके भाद्रशुक्लपञ्चमीवृद्धावाराध्यौदयिकपञ्चमीत्वेनोभयसम्मतटिप्पनकोक्तद्वितीयपञ्चमीदिनाव्यवहितपूर्वदिनस्याराधनायामौदयिकचतुर्थीदिनत्वेन प्रामाण्ये व्यपदेश्यत्वे चैव । तत्साधने चाऽस्माकं 'वृद्धौ कार्या तथोत्तरे'ति वचनं तदनुसारिशास्त्राबाधितप्रागुक्ताविच्छिनसुविहितपरम्परा च प्रमाणमित्यधिकमुपरिष्टात् ।
___ एवमनुमानमपि तत्र प्रमाणम् । तथाहि-विवादापन्नो गुरुवासरो गतवर्षीयो रविवासरो वा, औदयिकचतुर्थीदिनः, आराध्यपञ्चमीतिथित्वेन प्रमाणदिनाव्यवहितपूर्वदिनत्वात् । यत्र यत्राराध्यपञ्चमीतिथित्वेन प्रमाणदिनाव्यवहितपूर्वदिनत्वं तत्र तत्रौदयिकचतुर्थीदिनत्वम् । यथा श्रावणमासे आराध्यपञ्चमीदिनाव्यवहितपूर्वस्मिन् भौमदिने औदयिकचतुर्थीदिनत्वम् । तथा चाऽयम् । तस्मात्तथेति ।
____ अथात्र तावत् टिप्पनके भाद्रशुक्लपञ्चमीवृद्धौ टिप्पनकोक्तद्वितीयपञ्चमीदिनाव्यवहितपूर्वदिने गुरुवासरे एव पञ्चाङ्गोक्तप्रथमपञ्चमीमौदयिकी चतुर्थी गणयित्वा श्रीपर्यु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org