________________
ग्रन्थत्रयी
षणापर्व विधेयम्, न तु तद्व्यवहितपूर्वदिने बुधवासरे, इति सिद्धान्तो न युक्तः । आगमानुमानाभ्यां बाधितत्वात् । आगमे हि श्रीकालिकाचार्यभगवदादेशात् । ‘एवं जुगप्पहाणेहि कारणे चउत्थी पवत्तिया' इत्यादिवचनाद् भाद्रशुक्लचतुर्थ्यामेव श्रीपर्युषणापर्व विधीयते । तत्राऽपि 'उदयंमि जा तिही सा पमाण' मित्यादिवचनादौदयिक्यामेव तस्यां तद्विधीयते ।
टिप्पनकोक्तप्रथमपञ्चमीदिने गुरुवासरे च टिप्पनके औदयिक्याः पञ्चम्या एव सत्त्वेन तत्रौदयिकचतुर्थीदिनत्वाभावात् स्पष्टैवागमबाधेति चेत् ।
न । 'अंतरा वि य से कप्पइ' इत्यागमतात्पर्यापरिज्ञानात् । आगमानुमानाभ्यां बाधितत्वासिद्धः । आगमानुमानयोरेवोक्तसिद्धान्तसाधकत्वाच्च । तथा हि-पूर्व हि श्रीपर्युषणापर्व 'भद्दवयजुण्हपंचमीए' इत्यादिना भाद्रशुक्लपञ्चम्यामेवासीत् । तदपि'उदयंमि जा तिही सा पमाणं' इत्यादिवचनेनौदयिक्यामेव पञ्चम्यामित्यावयोरुभयोरपि सम्मतम् ।
अथ श्रीशालिवाहननृपविज्ञप्त्या युगप्रधानश्रीकालिकाचार्यभगवता श्रीपर्युषणापर्व यत् पञ्चमीदिनादगानीतम्, तत्किमेकेनाऽहाऽर्वागानीतमुत द्वाभ्यामहोभ्यामर्वाक् ?।
आधे-सिद्धोऽस्माकं सिद्धान्तः । तव चास्मिन् वर्षे औदयिकभाद्रशुक्लपञ्चमीदिनाद् द्वाभ्यामहोभ्यामर्वाग् बुधवासरे श्रीपर्युषणापर्वकरणे आज्ञाभङ्गापत्तिः । युगप्रधानेन तेन भगवता एकेनैवाऽहाऽर्वागानीतत्वेनाऽस्मिन्वर्षेऽप्यौदयिकभाद्रशुक्लपञ्चमीदिनादेकेनाहाऽर्वाग् गुरुवासर एव तत्कर्त्तव्यतासिद्धेस्तथैव कर्तव्यत्वात् । औदयिकभाद्रशुक्लपञ्चमीदिनत्वं चास्मिन् वर्षे शुक्रवासर एवेति 'वृद्धौ कार्या तथोत्तरे'ति वचनप्रामाण्याद आवयोरुभयोरपि सम्मतत्वात् ।
द्वितीये तु प्रमाणाभाव एव । न हि वपि कल्पनिशीथाद्यागमेषु तच्चूादिषु तदनुसारिपूर्वाचार्यविरचितेषु शास्त्रेषु वा श्रीकालिकाचार्यभगवता पञ्चमीदिनाद द्वाभ्यामहोभ्यामर्वाक् श्रीपर्युषणापर्व आनीतमिति वचनम् । नाऽपि तादृशार्थबोधिका काऽपि परम्परेति । औदयिकभाद्रशुक्लपञ्चमीदिनाद् द्वाभ्यामहोभ्यामर्वाग् बुधवासरे गतवर्षे शनिवासरे च श्रीपर्युषणापर्वकरणं तत्प्ररूपणं च तवाऽनागमिकमेवाऽपारम्परिकमेव चेति ।
किञ्चैवं सर्वेष्वपि वर्षेषु पञ्चमीदिनाद् द्वाभ्यामेवाऽहोभ्यामर्वाक् श्रीपर्युषणापर्वविधेयताऽऽपत्त्या तवानिष्टापत्तिः । न चेष्टापत्तिरिति वाच्यम् । टिप्पनके भाद्रशुक्लपञ्चमी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org