________________
पर्युषणातिथिविनिश्चयः ॥ तिथिवृद्ध्यभावे तु त्वयाप्यौदयिकपञ्चमीदिनादेकेनैवाऽहाऽर्वाक् क्रियमाणत्वात् । तत्रापि द्वाभ्यामहोभ्यामेवार्वाक् करणे भाद्रशुक्लतृतीयायां तत्करणापत्त्या 'चउत्थी पवत्तिया' इत्याद्यागमवचनविरोधापत्तेश्च ।
न च टिप्पनके भाद्रशुक्लपञ्चमीवृद्धावौदयिकपञ्चमीदिनाद् द्वाभ्यामहोभ्यामर्वाक् पर्युषणा कर्तव्या, अन्यथा त्वेकेनैवाऽहाऽर्वाक् सा कर्तव्येति वाच्यम् ।
___ आराध्यरूपौदयिकपञ्चमीदिनात् कदाचिदेकेनाऽर्वाक् कदाचिद् द्वाभ्यामहोभ्यामगिति श्रीपर्युषणामहापर्वणोऽप्यनैयत्यप्रसङ्गात् । तादृशार्थेऽपि प्रमाणाभावाच्च । अस्माकं तु श्रीकालिकाचार्यभगवता 'अंतरा वि य से कप्पइ' इति श्रीकल्पसूत्रवचनप्रामाण्यादौदयिकभाद्रशुक्लपञ्चमीदिनादेकेनैवाऽहाऽर्वाक् श्रीपर्युषणापर्व विहितमिति तथैव कर्त्तव्यम् । न तु कदाचिदपि द्वाभ्यामहोभ्यामर्वागपीति नियतरूप एवाऽबाधितः सिद्धान्त आराधितो भवति ।
चतुर्विंशतिप्रबन्धेऽपि-'यस्तु कालिकाचार्यपाङत् पर्युषणामेकेनाऽहाऽर्वागानायय' दिति वचनेनैकेनैवाऽहाऽर्वाक् श्रीपर्युषणानयनं स्पष्टमेवोक्तमित्यपि बोध्यम् ।
ननु- 'ताहे रण्णा भणियं-अणागयचउत्थीए पज्जोसविति । आयरिएहिं भणियंएवं भवउ । ताहे चउत्थीए पज्जोसवियं ।' इति श्रीनिशीथचूर्णिवचनात् । 'आयरिएण भणियं एवं होउ ति चउत्थीए कया पज्जोसवणा' इति श्रीपर्युषणाकल्पचूर्णिवचनाच्च श्रीकालिकाचार्यभगवता भाद्रशुक्लचतुर्थीदिन एव पर्युषणा कृता । ततः प्रभृति च भाद्रशुक्लचतुर्थीदिन एव सर्वदा पर्युषणा क्रियते । तत्रापि 'उदयंमि जा तिही सा पमाण' मिति वचनादौदयिक्येव चतुर्थी बोध्या । अस्मिन् वर्षेऽपि टिप्पनके भाद्रशुक्लपञ्चमीवृद्धावप्यौदयिकभाद्रशुक्लचतुर्थीदिनत्वं तु बुधवासर एव न तु गुरुवासरे। तत्र टिप्पनके प्रथमपञ्चमीदिनत्वात् । इत्थं च श्रीपर्युषणापर्वणोऽनयत्यापत्तिरपि परास्ता, तस्यौदयिकभाद्रशुक्लचतुर्थीदिननियतत्वादिति चेत् ।
सत्यम् । अस्माभिरपि श्रीपर्युषणापर्वण औदयिकभाद्रशुक्लचतुर्थीदिननैयत्यस्यैव सिद्धान्तितत्वात् । तत्र चतुर्थीदिनत्वं चतुर्थीदिनत्वेन तात्पर्यविषयः, आराध्यभाद्रशुक्लपञ्चमीदिनाव्यवहितपूर्वदिनत्वेन तात्पर्यविषयो वेत्यग्रे स्पष्टम् । अस्मिन् वर्षे विवादापन्ने गुरुवासरे टिप्पनकवचनेन प्रथमपञ्चमीदिनत्वसत्त्वेऽपि 'वृद्धौ कार्ये'ति विशेषवचनेन तदनुसारिपरम्परया च पर्वतिथ्याराधनायां तत्रौदयिकचतुर्थीदिनत्वस्यैव निश्शङ्कमभ्युपगमनीयत्वात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org