________________
ग्रन्थत्रयी किन्त्वत्र त्वं प्रष्टव्योऽसि यत्-भाद्रशुक्लचतुर्थीदिन एव पर्युषणा क्रियतइत्यत्र कि बीजम् ?। किं तत्रौदयिकभाद्रशुक्लचतुर्थीदिनत्वाद्वा पर्वतिथिदिनत्वाद्वा
औदयिकभाद्रशुक्लपञ्चमीदिनाव्यवहितपूर्वदिनत्वाद्वा श्रीकालिकाचार्यभगवता तथा प्रवर्तितत्वाद्वा ?
नाद्यः । औदयिकभाद्रशुक्लचतुर्थीदिनत्वाच्चतुर्थ्यामिवौदयिकभाद्रशुक्लतृतीयादिनत्वात् तृतीयायामेव कथं न पर्युषणा कर्तव्येत्यस्यापि त्वया वाच्यत्वात् । न ह्यौदयिकचतुर्थीदिनत्वात् चतुर्थीदिन एव सा कर्तव्या न तु तृतीयायामित्यत्र किञ्चिदपि नियामकम् । उभयोरप्यपर्वतिथिदिनत्वेन साम्यात् । न वा क्वचिदपि श्रीकल्पाद्यागमेषु कारणे सति पञ्चमीदिनादर्वाक् चतुर्थीदिन एव पर्युषणा कर्तव्या न तृतीयादिने-इत्यर्थप्रतिपादकं वचनमुपलभ्यते । .
न च-'अंतरा वि य से कप्पइ' इति श्रीकल्पवचनादेव चतुर्थीदिने सा कर्तव्या न तृतीयादिन इति वाच्यम् ।।
तत्र 'अंतरा' शब्दस्य चतुर्थीदिनवाचकत्वाभावात् । न च लक्षणयैव 'अंतरा'शब्दस्य चतुर्थीदिनार्थकत्वमिति वाच्यम् ।
लक्षणयैव तृतीयादिनार्थकत्वमपि तस्य कथं न स्यादित्यस्यापि वाच्यत्वात्, नियामकाभावात् ।
___ न च युगप्रधानेन तेन भगवता शातवाहननृपविज्ञप्त्या चतुर्थीदिन एव पर्युषणायाः प्रवर्तितत्वेन 'अंतरा'शब्दस्य चतुर्थीदिनार्थकत्वमेव न तृतीयादिनार्थकत्वमिति वाच्यम्। अन्योन्याश्रयप्रसङ्गात् । तथा हि-'अंतरा'शब्दस्य चतुर्थीदिनार्थकत्वप्रामाण्ये सिद्ध एव चतुर्थी दिने पर्युषणायाः प्रवर्तितत्वस्य प्रामाण्यसिद्धिः । चतुर्थीदिने पर्युषणायाः प्रवर्तितत्वस्य प्रामाण्यसिद्धावेव च 'अंतरा'शब्दस्य चतुर्थीदिनार्थकत्वप्रामाण्यसिद्धिरिति ।
____न चाऽन्तरा'शब्दस्य 'दिष्टया समुपजोषं चेत्यानन्देऽथान्तरेऽन्तरा । अन्तरेण च मध्ये स्युः' इत्यादिकोषवचनाद् मध्यार्थकत्वेनाऽऽषाढचातुर्मासिकदिनादारभ्य यत् पञ्चाशत्तममौदयिकभाद्रशुक्लपञ्चमीदिनं तन्मध्यवर्तिदिनार्थकत्वमेवेत्यपि साम्प्रतम्।
औदायिकभाद्रशुक्लतृतीयादिनस्यापि तन्मध्यवर्तिदिनत्वेन तत्रापि श्रीपर्युषणायाः कर्तव्यतापत्तेः, पर्युषणापर्वदिनानैयत्यप्रसङ्गतादवस्थ्यात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org