________________
पर्युषणातिथिविनिश्चयः ॥
८७ __ स्यादेतत्, 'अंतरा वि य से कप्पई' इत्यस्य 'अर्वागपि तत्पर्युषणाकरणं कल्पते'-इत्येवं विवरणदर्शनादन्तराशब्दस्यार्वाग्दिनार्थकत्वमेवेति चेत् ।
सत्यम् । परं तदर्वाग्दिनत्वं हि पूर्वदिनत्वम् । तत्र किं व्यवहितपूर्वदिनत्वं तवाभिमतं किं वाऽव्यवहितपूर्वदिनत्वम् ?
आद्य-तृतीयादिनस्यापि व्यवहितपूर्वदिनत्वेन तत्रापि पर्युषणाकर्त्तव्यतापत्तेः । द्वितीये-'घट्टकुट्यां प्रभात' तव । सिद्ध नः समीहितं विवादानवकाशश्च । औदयिकभाद्रशुक्लपञ्चमीदिनादव्यवहितपूर्वदिनत्वस्यास्मिन् वर्षे विवादापन्ने गुरुवासर एव सत्त्वेन तत्र दिन, एव श्रीपर्युषणायाः कर्त्तव्यतासिद्धेरिति ॥
नापि पर्वतिथिदिनत्वादिति द्वितीयः पक्षः । चतुर्थीदिनस्य पर्वतिथिदिनत्वाभावात् । 'इदाणि कहं चउत्थीए अपव्वे पज्जोसविज्जई' इति श्रीनिशीथचूर्णौ चतुर्थ्या अपर्वत्वेनैवोक्तेश्च ।
___ नाप्यौदयिकभाद्रशुक्लपञ्चमीदिनाव्यवहितपूर्वदिनत्वादिति तृतीयः पक्षः । तस्यास्मत्सिद्धान्तस्यैव साधकत्वात् । अस्मिन् वर्षे गुरुवासर एव तदव्यवहितपूर्वदिनत्वात्।
नापि श्रीकालिकाचार्यभगवता तथा प्रवर्तितत्वादिति चतुर्थोऽपि पक्षो युक्तः । तत्र तथा प्रवर्तितत्वं किमागमवचननिरपेक्षं वाऽऽगमवचनसापेक्षं वा ?
तत्र नाद्यः । असम्भवादेव । न हि युगप्रधानादयः प्रावचनिकाः पुरुषा आगमवचननिरपेक्षप्रवृत्तिमन्तः कदापि भवन्ति । प्रावचनिकत्वस्यैव क्षतेः । .
'तो कुणह चउत्थीए इय भणिए सूरिणापि पडिवन्नं ।
जं कारणेण भणियं आरेण वि पज्जुसवियव्वं ॥' इत्यादौ तथाप्रवर्तितत्वस्याऽऽगमवचनसापेक्षत्वस्यैवोक्तेश्च ।
द्वितीये-वाच्यं तदागमवचनं, यदनुसारेण चतुर्थीदिन एव पर्युषणा विहिता न तृतीयादिने नापि षष्ठीदिने ।
ननु 'अंतरा वि य से कप्पइ' इति श्रीकल्पवचनमेव तत्र तथा प्रवृत्तौ प्रमाणमिति चेत् ।
तर्हि 'अंतरा' शब्दस्य चतुर्थीदिनवाचकत्वाभावादित्यादिकं प्रागुक्तमेवावर्त्तते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org