________________
८८
ग्रन्थत्रयी तथा च तत्रान्तराशब्दस्याव्यवहितपूर्वदिनार्थकत्वस्यैव सिद्धत्वेनास्मदुक्त एव सिद्धान्तो निराबाध इति सिद्धम् ॥
न चैवं 'चउत्थीए पज्जोसवियं ।' 'चउत्थीए कया पज्जोसवणा' इत्यादावौदयिकभाद्रशुक्लचतुर्थीदिनार्थकस्य चतुर्थीशब्दस्य का गतिरिति वाच्यम् ।
टिप्पनके भाद्रशुक्लचतुर्थ्याः क्षये तवापि तद्गतेर्वाच्यत्वात् । तत्र चतुर्थ्याः टिप्पनकानुसारेणौदयिकत्वाभावात् । अंतराशब्दस्योक्तरीत्याऽव्यवहितपूर्वार्थकत्वे सिद्धे तत्र तत्र चतुर्थीशब्दस्याप्यव्यवहितपूर्वदिनतात्पर्यकत्वादेवाऽगतेरभावाच्च ।
न च मुख्यार्थबाध एव तात्पर्यान्वेषणं युक्तमिति साम्प्रतम् । तस्मिन्नसत्यपि तद्भावाविरोधात् । तद्यथा -
'गच्छ गच्छसि चेत् कान्त !, पन्थानः सन्तु ते शिवाः । ममापि जन्म तत्रैव, भूयाद् यत्र गतो भवान् ।।' इति ।
अत्र मुख्यार्थाबाधनेऽपि वारणे तात्पर्यात् । तथा च, यदुद्देशेन यस्य शब्दस्य प्रवृत्तिः स शब्दस्तत्परः । तथैव लोकव्युत्पत्तेः । तथाहि-प्रशंसावाक्यमुपादानमुद्दिश्य लोके प्रयुज्यते, तदुपादानपरम् । निन्दावाक्यं हानमुद्दिश्य प्रयुज्यते, तद् हानपरम् । एवमन्यत्रापि स्वयमूहनीयम् । तस्माल्लोकानुसारेण शास्त्रेऽप्येवं स्वीकरणीयम् । अन्यथाऽर्थवादवाक्यानां सर्वथैवानर्थक्यप्रसङ्गात् । तथा चाऽन्तरा'शब्दस्याऽव्यवहितपूर्वार्थकत्वे सिद्धे 'चतुर्थी'शब्दस्यापि अव्यवहितपूर्वदिनोद्देशेनैव तत्र तत्र प्रवृत्तत्वस्याभ्युपगमनीयतयाऽर्थान्तरसङ्क्रमितवाच्ययाऽव्यवहितपूर्वदिनपरत्वमेव तस्येति न काप्यनुपपत्तिरिति विभावनीयम् ।
ननु श्रीकल्प-निशीथचूर्ध्यादौ पञ्चक पञ्चकवृद्ध्यौदयिकभाद्रशुक्लपञ्चमीदिनाद् व्यवहितपूर्वदिने एव पर्युषणायाः कर्त्तव्यतोक्ते रन्तरा'शब्दस्य नाऽव्यवहितपूर्वदिनपरत्वमिति चेत् ।
न। तत्र 'पर्युषणा'शब्दस्य वर्षाकालावस्थानरूपपर्युषणार्थकत्वेन सांवत्सरिककृत्यविशिष्टपर्युषणापर्वार्थकत्वाभावात् पर्युषणाशब्दस्य सामान्यतो व्यर्थकत्वोक्तेश्च ।
तत्र-वर्षाकालावस्थानरूपपर्युषणावाचकः पर्युषणाशब्दश्चैवम्-तथाहि'इत्थ उ पणगं पणगं कारिणियं जा सवीसइ मासो । सुद्धदसमीट्ठियाण व आसाढीपुण्णिमोसरणं ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org