________________
८२
ग्रन्थत्रयी फल्गुतिथित्वाच्च । तथा चाऽस्मिन् वर्षे आराध्यपञ्चमीरूपटिप्पनकोक्तद्वितीयपञ्चमीदिनव्यवहितपूर्वदिनात्मकेऽपि बुधवासर एव पर्युषणापर्व विधेयम् । तत्रैव दिने टिप्पनके चतुर्थ्या औदयिकत्वात् । 'उदयंमि जा तिही सा पमाण' मित्यादिवचनेनौदयिक्या एव तिथेः प्रमाणतयोक्तेरिति ।
अथाऽत्र तावदस्य वादिमतस्य निष्प्रमाणत्वमुपपादनीयम् । तदुपपादने हि प्रागुक्तसिद्धान्तस्य सिद्धिः । उपपादनं च स्वपक्षसाधन-परपक्षनिराकरणाभ्यां भवति । तदुभयं चाऽऽगमपञ्चाङ्गीप्रामाण्यं तदनुसारितदबाधितपूर्वाचार्यप्रतिपादितशास्त्रप्रामाण्यं चाभ्युपगम्योभाभ्यां वादिप्रतिवादिभ्यां व्यवहारनियमसमयबन्धात् प्रवर्तितायां कथायामेव सम्पादनीयम् ।
तत्र च विप्रतिपत्तिजन्यसंशयस्य विचाराङ्गत्वात् मध्यस्थेन प्रमाणेन तदविरोधिना तर्केण च व्यवहर्तव्यं वादिना । प्रतिवादिनाऽपि कथाङ्गतत्त्वज्ञानविपर्ययलिङ्गप्रतिज्ञाहान्याद्यन्यतमनिग्रहस्थानं तस्य दर्शनीयम् । तद्व्युत्पादने प्रथमस्य भङ्गो व्यवहर्त्तव्यः । अन्यथा द्वितीयस्यैव । तादृशेतरो च जेतृतया व्यवहर्त्तव्यौ । प्रामाणिकः पक्षस्तात्त्विकतया व्यवहर्त्तव्य इत्यादिस्वरूपसमयबन्धादिवत् तत्सदृशान्यविधरूपसमय-बन्धादिवद्वा स्वकर्त्तव्यतानिहायादौ विप्रतिपत्तिरपि प्रदर्शनीयैवेति ।
विप्रतिपत्तिजन्यसंशयस्य चाऽत्र विचारोपयोगिता किं पक्षतासम्पादकतया कि वा स्वरूपत एव पक्षप्रतिपक्षग्रहफलकतयेत्यन्यदेतत् ।
तत्र चेमे विप्रतिपत्तिप्रकाराः । तथा हि-युगप्रधानश्रीकालिकाचार्यादनु पर्युषणापर्व प्राक् 'पर्युषणापर्वदिनत्वेनोभयसम्मतौदयिकपञ्चमीरूपाराध्यभाद्रशुक्लपञ्चमीदिनाव्यवहितपूर्वदिनकर्तव्यताकं न वा'? । अत्र विधिकोटिः स्वपक्षः, निषेधकोटिः परपक्षः । एवं 'उक्तभाद्रशुक्लपञ्चमीदिनव्यवहितपूर्वदिनकर्त्तव्यताकं न वा '?। अत्र निषेधकोटि स्वपक्षः विधिकोटिः परपक्षः ।
विशेषतो वा विप्रतिपत्तिरेवम्-'विवादापन्नो गुरुवासरो गतवर्षीयो रविवासरो वा पर्युषणापर्वकर्तव्यताको न वा'?। अत्र विधिकोटिः स्वपक्षः, निषेधकोटिः परपक्षः। 'एवं विवादापन्नो बुधवासरे गतवर्षीयः शनिवासरो वा पर्युषणापर्वकर्त्तव्यताको न वा'?। अत्र निषेधकोटिः स्वपक्षः, विधिकोटिः परपक्षः ।
अत्र तदव्यवहितपूर्वत्वं च 'तत्प्रागभावाधिकरणप्रागभावानधिकरणत्वे सति तत्प्रागभावाधिकरणत्वम्' । तद्दिनाव्यवहितपूर्वदिनत्वं च 'तद्दिनप्रागभावाधिकरणदिन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org