________________
पर्युषणातिथिविनिश्चयः ॥ दिनाव्यवहितपूर्वदिनात्मकतया चतुर्थीदिनमेव स्वीकृतवान् । ततः प्रभृति च सर्वत्र सर्वदा तथैव पर्युषणा क्रियते ।।
अथाऽस्मिन् वर्षेऽपि टिप्पनके भाद्रशुक्लपञ्चमीवृद्धौ, 'अंतरा वि य से कप्पई' इति वचनान्, 'वृद्धौ कार्या तथोत्तरे ति वचनात् तद्वचनानुसारिशास्त्राबाधितप्रागुक्तस्वरूपाविच्छिन्नसुविहितपरम्परया च पर्वतिथ्यात्मकपञ्चमीशुक्रदिनाव्यवहितपूर्वदिनात्मके गुरुवासरे एव पर्युषणापर्व विधेयम् । तत्र दिने टिप्पनकोक्तप्रथमपञ्चम्यां, 'वृद्धौ कार्या तथोत्तरे'ति वचने उक्तस्वरूपपरम्परया चौदयिकचतुर्थीदिनतयैव गणनीयत्वात्, पञ्चाङ्गोक्तद्वितीयपञ्चम्या एव शुक्रदिने पञ्चमीरूपपर्वतिथित्वेनाऽऽराध्यतया सर्वसम्मतत्वेन गुरुवासरस्यैव तदव्यवहितपूर्वदिनत्वाच्च । ..
इत्थमेव च-'अंतरा वि य से कप्पई' इति शास्त्राज्ञा । एवं-'जुगप्पहाणेहि कारणे चउत्थी पवत्तिया सा चेवाणुमया सव्वसाहूणं' इति शास्त्राज्ञा । वृद्धौ कार्या तथोत्तरे' ति शास्त्राज्ञा ।
_ 'उदयंमि जा तिही सा पमाणमियराए कीरमाणीए ।
आणाभंगणवत्था मिच्छत्तविराहणं पावे ॥ इत्यादिशास्त्राज्ञा शास्त्रानुसारिप्रागुक्तस्वरूपाविच्छिन्नसुविहितपरम्पराज्ञा चाऽऽराधिता भवति, नान्यथेति बोध्यम् । - एवं च-यदा कदाचित् टिप्पनके भाद्रशुक्लपञ्चमीवृद्धिः स्यात् तदा पञ्चमीपर्वतयाऽऽराध्यत्वेन सर्वसम्मतटिप्पनकोक्तद्वितीयपञ्चमीदिनाव्यवहितपूर्वदिने एव टिप्पनकोक्तप्रथमपञ्चमीमौदयिकी चतुर्थी गणयित्वा श्रीपर्युषणापर्व विधेयम् । न तु तद्व्यवहितपूर्वदिने, इति सिद्धान्तः ।
___ इत्थमेव च गत०वि.सं.१९९२वर्षेऽपि टिप्पनके भाद्रशुक्लपञ्चमीवृद्धावप्याराध्यपञ्चमीदिनात्मकसोमवारसराव्यवहितपूर्वदिनात्मके रविवासरे एव टिप्पनकोक्तप्रथमपञ्चमीदिनात्मकेऽप्याराधनायां भाद्रशुक्लचतुर्थीदिनात्मके सकलग्रामनगरादिषु प्रायः सर्वत्र चतुर्विधेनाऽपि श्रमणसङ्घन पर्युषणापर्व समाराधितमिति ।
___अथाऽत्राऽर्थे कश्चित् विप्रतिपद्यते । टिप्पनके भाद्रशुक्लपञ्चमीवृद्धौ टिप्पनकस्थचतुर्थीदिन एव पर्युषणापर्व विधेयम् । न तु टिप्पनकोक्तप्रथमपञ्चमीदिने । श्रीकालिकाचार्यभगवदादेशात् चतुर्थ्यामेव तस्य विधेयतोक्तेः, टिप्पनकोक्तप्रथमपञ्चम्याः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org