Book Title: Granthtrai
Author(s): Vijayanandsuri, Shilchandrasuri
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 70
________________ आचार्यश्रीविजयनन्दनसूरिभगवत्प्रणीतं आचेलक्यतत्त्वम् ॥ श्रीमत्सुगृहीतनामधेयभगवद्हरिभद्रसूरिपादीयावश्यकवृत्तिवचनरूपप्रमाणस्य जागरूकत्वादिति ॥ ___ अथ देवदूष्यपतनं किमाद्यान्तिमयोरेव जिनयोरुताऽन्येषामपि जिनानामिति विचार्यते। तत्र 'तीर्थकरा असदचेलाः, देवदूष्यपतनानन्तरं सर्वदैव तेषां वस्त्राभावात्' इति बृहत्कल्पवृत्तिवचनात्, 'तीर्थकरा जिनाः असच्चेला: सन्तोऽचेला भवन्ति शक्रोपनीतदेवदूष्यापगमानन्तर'मिति पञ्चाशकवृत्तिवचनाच्च सर्वेषामपि जिनानां देवदूष्यपतनं भवतीत्यवसीयते । सामान्येनैव तीर्थकराणामसदचेलकत्वस्य देवदूष्यपतनस्य च तत्रोक्तत्वात् । अन्यथा हि, इदं च येषां तीर्थकराणां देवदूष्यपतनं भवति तानाश्रित्य बोध्यमित्यर्थकमपि अन्यद् वाक्यं प्रयुज्येत । किञ्च, 'तित्थगर असंतचेला' इत्यत्र बाधकाभावेन तीर्थकरत्वावच्छेदेनैवाऽसदचेलकत्वस्याऽन्वयो वाच्यः । न च तादृशान्वये नियामकाभाव इति वाच्यम् । असति बाधके उद्देश्यतावच्छेदकावच्छेदेन विधेयान्वय इति नियमस्यैव सर्वानुमतस्य नियामकत्वात् । न चाऽत्र किञ्चिद् बाधकमानमस्ति । इत्थं च तीर्थकरत्वस्याऽसदचेलकत्वव्याप्यतालाभात्, 'तीर्थकरा असदचेला एवे'त्यवधारणमपि नाऽसङ्गतमिति बोध्यम् । देवदूष्यापगमविशेषणविशेषिततीर्थकरत्वावच्छेदेनैवाऽसदचेलकत्वबोधे तात्पर्याच्च नाऽत्र पूर्वोक्तोऽपि दोषः । इत्थं चैतदभिप्रायकमेव 'असंता चेला तित्थगरा । ते एगंतेण असंताचेला चेव' इति पञ्चकल्पचूर्णिवचनावधारणमपि । एवं 'सव्वहा जिणिंदा य खंधाओ देवदूसं चवइ तओ चेव आरब्भ' इत्यध्यात्ममतपरीक्षायामपि सामान्येनैव जिनेन्द्राणां देवदूष्यच्यवनस्य प्रतिपादितत्वेन सर्वेषामपि जिनानां देवदूष्यच्यवनं भवतीति प्रतिभाति । किञ्च, सूत्रे हि तीर्थकृतामचीवरत्वं कदाचित् सर्वदा वा ?। कदाचिच्चेत् को वा किमाह ? कदाचिदस्माकमप्यस्याऽभिमतत्वात् । अथ सर्वदा । तन्न । 'सव्वे वि एगदूसेण निग्गया जिणवरा उ चउवीस मिति वचनादिति । श्रीउत्तराध्ययनबृहद्वत्तौ अचेलपरीषहाध्ययने । महार्थकर्मप्रवादपूर्वोद्धृतपरीषहाध्ययनाधीतस्याऽपि सचेल त्वस्याऽनङ्गीकर्तृन् प्रति तत्साधकवचनोपक्रमे इत्युक्तौ सर्वेषामपि तीर्थकृतां सर्वदाऽचीवरत्वस्य निषेधात्, कादाचित्काचीवरत्वस्य चाऽभ्युपगमात्, सर्वेषामपि जिनानां Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176