Book Title: Granthtrai
Author(s): Vijayanandsuri, Shilchandrasuri
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 65
________________ ग्रन्थत्रयी तीर्थकराणां सचेलकत्वमचेलकत्वं चेति द्वयमपि केनचित् प्रमाणान्तरेण सिद्धं स्यात् । न च किमपि तादृशं प्रमाणान्तरमिति । न चैवं तर्हि 'संताचेला भवे सेसा' इत्यस्याऽपि द्वितीयकल्पे 'शेषा मुनयः सदचेला एवे'त्येतावत्येवाऽर्थे तात्पर्य स्यात्, न तु पूर्वोक्तरूपेऽर्थे । एवं च सति तादृशस्याऽर्थस्य बाधितत्वमेव शेषमुनीनां सदचेलकत्वमात्रस्याऽभावादिति वाच्यम् । _ 'संताचेला भवे सेसा' इत्यस्य शेषमुनयो यद्यचेलका भवेयुस्तदा सदचेलका एवेति पूर्वोक्तार्थ एव तात्पर्यकल्पनात् । तत्र हि शेषमुनीनां - 'आचेलको धम्मो पुरिमस्स य पच्छिमस्स य जिणस्स । मज्झिमगाण जिणाणं होइ सचेलो अचेलो वा ॥' एवम्-'एगयाऽचेलए होइ सचेले वावि एगया ॥' इत्यादिवचनेन सचेलकत्वमचेलकत्वं चेति द्वयमपि सिद्धमेवेति । पूर्वोक्ततादृशार्थकल्पनायां प्रतिबन्धाभावात् । न चैवं तीर्थकराणां सचेलकत्वमसदचेलकत्वं .. चेति द्वयं सिद्धमस्तीति न तत्र तथा तात्पर्यकल्पनेति । नन्वेवं तीर्थकरस्याऽपि भगवतः - 'उसभे णं अरहा कोसलिए संवच्छरं साहियं चीवरधारी होत्थ'त्ति । एवं-'समणे भगवं महावीरे संवच्छरं साहियं मासं जाव चीवरधारी हुत्था । तेण परं अचेले ।' इत्यादिवचनेन सचेलकत्वमचेलकत्वं चेति द्वयमपि सिद्धमेवाऽस्तीति कथं न 'संताचेला भवे सेसा' इति सूत्रवत् 'तित्थगर असंतचेला' इत्यस्याऽपि सूत्रस्य पूर्वोक्ततात्पर्यार्थकल्पनेति चेत् । न । पूर्वोक्तवचनेनाऽचेलकत्वस्य सिद्धावपि सचेलकत्वस्यासिद्धेः । न च, चीवरधारित्वकथनेनैव सचेलकत्वस्य सिद्धिरिति वाच्यम् । चीवरधारित्वस्य सचेलकत्वाऽव्यभिचारित्वाभावात् । मध्यमजिनसाधुरूपसपक्षप्रथमान्तिमजिनसाधुरूपविपक्षोभयवृत्तित्वेन तस्य साधारणानैकान्तिकत्वात् । एतेन 'सया वि सेसाण तस्स ठिइ' इति वचनेनाऽपि सचलेकत्वसिद्धिः परास्ता । वस्त्रस्थितेः पूर्वोक्तरीत्या सचेलकत्वनियतत्वाभावात् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176