Book Title: Granthtrai
Author(s): Vijayanandsuri, Shilchandrasuri
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
आचार्यश्रीविजयनन्दनसूरिभगवत्प्रणीतं आचेलक्यतत्त्वम् ॥ एव द्वितीयः कल्पः । अत एव च श्रीमद्भिरभयदेवसूरिभगवत्पादैः 'तित्थगरऽसंतचेला' इति पञ्चाशकवचनेऽनुक्तमपि तस्य व्याख्याने 'शकोपनीतदेवदूष्यापगमानन्तर मिति शेषीकृतम् । तथा च तीर्थकराणां देवदूष्यानपगमं यावदसदचेलकत्वाभावेऽपि न क्षतिः । नाऽपि देवदूष्यानपगमं यावत् सदचेलकत्वस्य सचेलकत्वस्य वाऽपि स्वीकारे प्राक्प्रदर्शितः स्वाभिमतकल्पविरोधगन्ध इति चेत् ।
न । तथाऽपि चतुर्विशतेरपि जिनानामचेलकत्वमिति स्वाभिमतासिद्धेः । अचेलकत्वं ह्यत्राऽसदचेलकत्वमेवाऽभिमतम् । तच्च देवदूष्यापगम एव । स च सर्वेषामसिद्ध एव । चतुर्विशतेरपि जिनानां देवदूष्यापगमो भवतीत्यत्र प्रमाणाभावात् । चतुर्विंशतावपि जिनेषु केषाञ्चित्सर्वदा देवदूष्यसद्भावाभ्युपगमेऽपि व्यपगतदेवदूष्यास्तीर्थकरा असदचेला एवेति स्वाभिमतकल्पाविरोधाच्च । पूर्वोक्तबाधितार्थाव्यवच्छेदाच्चेति।
अथ पूर्वोक्तद्वितीयपक्षानुसारिणः प्रष्टव्याः । उक्तकल्पद्वये किं प्रथमः कल्पोऽभिमतो भवतां द्वितीयो वेति । तत्र प्रथमकल्पस्य स्वपक्षे दोषाकरत्वेऽपि स्वपक्षपुष्टावकिञ्चित्करत्वमेव । द्वितीयः कल्पस्तु स्वपक्षे दोषाधायक एव । तथा हि"द्वाविंशतेर्जिनानां सर्वदा सचेलकत्वमेव । प्रथमान्तिमयोश्च देवदूष्यानपगमं यावत् सचेलकत्वम्, देवदूष्यापगमे चाऽसदचेलकत्वरूपमचेलकत्व-" मिति हि स्वपक्षः । तस्य च 'तीर्थकरा असदचेला एवे' ति कल्पेन तीर्थकरेष्वसदचेलकत्वायोगव्यवच्छेदस्य असदचेलकत्वभिन्नस्य सचेलकत्वादेनिवृत्तेश्च बोधनेन स्पष्ट एव बाध इति ।
न च, द्वितीयकल्पस्याऽयं तात्पर्यार्थः । तथा हि-तीर्थकरा यद्यचेलका भवेयुस्तदाऽसदचेलका एव । अन्यथा तु सचेलका एव, न तु मुनिवत् सदचेलकाः । यथा-'संताचेला भवे सेसा' इत्यस्य शेषमुनयो यद्यचेलका भवेयुस्तदा सदचेलका एव, न तु तीर्थकरवदसदचेलकाः । इतरथा सचेलका एवेति तात्पर्यार्थः । तथा च, यथा शेषमुनीनां सचेलकत्वं सदचेलकत्वं चेति द्वयमपि 'संताचेला भवे सेसा' इति सूत्रस्य तात्पर्यविषयस्तथा 'तित्थगर असंतचेला' इत्यस्याऽपि सूत्रस्य तीर्थकराणां सचेलकत्वमसदचेलकत्वं चेति द्वयमपि तात्पर्यविषयः । इति दूरापास्तमेव पूर्वोक्तं स्वपक्षदोषाधायकत्वं द्वितीयपक्षानुसारिणां द्वितीयकल्पस्येति, वाच्यम् ।
तीर्थकृतां सदचेलकत्वस्याऽपि प्रमाणविषयत्वस्य वक्ष्यमाणत्वात्, तादृशतात्पर्यार्थकल्पनायां प्रमाणाभावाच्च । तदा हि तादृशतात्पर्यार्थकल्पना स्याद् यदा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176