Book Title: Gnata Dharmkathangam
Author(s): Chandrasagarsuri
Publisher: Siddhchakra Sahitya Pracharak Samiti

View full book text
Previous | Next

Page 385
________________ A ANSAURUSALAMAUSA समुद्रस्य पुष्करोदस्य च मागधादीनां च तीर्थानां गङ्गादीनां च महानदीनां पद्मादीनां महाइदानामुदकमुत्पलादीनि मृत्तिका च हिमवदादीनां च वर्षधराणां वर्तुलविजया नां च पर्वतानां भद्रशालादीनां च वनानां पुष्पाणि गन्धान् सर्वोषधी: तूवराणि सिद्धार्थकान् गोशीर्षचन्दनं चानिन्युः, ततोऽसावच्युतदेवराजोऽनेकैः सामानिकदेवसहस्रैः सह जिनपतिमभिषिषेच, अभिषेके च वर्तमाने इन्द्रादयो देवाः छत्रचामरकलशधूपकडुच्छुकपुष्पगन्धाधने कविधाभिषेकद्रव्यव्यग्रहस्ताः, वज्रशूलाधनेकायुधसम्बन्धबन्धुरपाणयः, आनन्दजललवप्लुतगण्डस्थला, ललाटपघटितकरसम्पुटा जयजयारवमुखरितदिगन्तराः, प्रमोदमदिरामन्दमदवशविरचितविविधचेष्टाः, पर्युपासांचक्रिरे तथा केचित्-चतुर्विधं वाचं वादयामासुः केचिचतुर्विधं गेयं परिजगुः, केचिच्चातुर्विधं नृत्तं ननृतः, केचिच्चतुर्विधमभिनयममिनिन्युः, केचिद्-द्वात्रिंशद्विधं नाट्यविधिमुपदर्शयामासुरिति; ततो गन्धकापायिकया गात्राण्यलूपयन् , ततश्चाच्युतेन्द्रो मुकुटादिभिर्जिनमलश्चकार, ततो जिनपतेः पुरतो रजतमयतन्दुलैर्दपणादीन्यष्टाष्टमङ्गलकान्यालिलेख, पाटलादिबहलपरिमलकलितकुसुमनिकरं व्यकिरत् , शुभसुरमिगन्धवन्धुरं धूपं परिददाह, अष्टोत्तरेण वृत्तशतेन च सन्तुष्टस्तुष्टाव-नमोऽस्तु ते सिद्ध !, बुद्ध !, नीरजः, श्रमण!, समाहित समस्तसम !, योगिन् शल्यकर्तन !, निर्भय !, नीरागद्वेष !, निर्मम !, निःशल्य !, निःसङ्ग !, मानमरणागण्यगुणरत्न!, शीलसागर!, अनन्ताप्रमेयभव्यधर्मवरचतुरन्तचक्रवर्तिन् !, नमोऽस्तु तेर्हते, नमोऽस्तु ते भगवते इत्यभिधाय वन्दते स्म ततो नातिरे स्थितः पर्युपासांचक्रे, एवं सर्वेऽप्यभिषिषेचुः, केवलं सर्वान्ते शक्रोऽभिषिक्तवान् , तदभिषेकावसरे च ईशानः शक्रवदात्मानं पश्चधा विधाय जिनस्योसङ्गधरणादिक्रियामकरोत् , ततः शक्रो जिनस्य चतुर्दिशि चतुरो धवलवृषभान् विचकार, तेषां च शृङ्गाग्रेभ्योऽष्टौ तोयधारा IRAISION-C+ MA

Loading...

Page Navigation
1 ... 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440