Book Title: Gnata Dharmkathangam
Author(s): Chandrasagarsuri
Publisher: Siddhchakra Sahitya Pracharak Samiti

View full book text
Previous | Next

Page 387
________________ वा-अलौकिकचरितत्वेन पीठमसाल्हाभिधानफलविशेषाकाराष्ट्र वर्णवर्णत्वात AC+ ACCARRA I||| 164464% वयस्यिकानामेव तासां सम्भवात् , अथवा-अलौकिकचरितत्वेन पीठमईसम्भवेऽपि निर्दषणत्वेन भगवत्या नेदं विशेषणं न सम्भवति, असितशिरोजा-कालकुन्तला सुनयना-सुलोचना बिम्बोष्ठी-पक्कगोल्हाभिधानफलविशेषाकारोष्ठी धवलदन्तपतिका पाठान्तरेण-धवलदन्तश्रेणिका वरकमलगर्भगौरीत्येतद्विशेषणं न सम्भवति, तस्याः कमलगर्भस्य सुवर्णवर्णत्वात् भगवत्याश्च मल्ल्याः प्रियङ्गुवर्णत्वेन श्यामत्वाद् , उक्तं च-"पउमाभ वासुपुजा रत्ता, ससिपुष्कदंत ससिगोरा । सुब्बयनेमी काला, पासो मल्ली पियंगाभा । १॥” इति, अथवा-वरकमलस्य-प्रधानहरिणस्य गर्भ इव गौ जठरसम्भूतत्वसाधात वरकमलगर्भ:-कस्तूरिका तद्वद् गौरी-अवदाता वरकमलगभगौरी श्यामवर्णत्वात् , कस्तूरिकाया इव श्यामेत्यर्थः, पाठान्तरेण वरकमलगर्भवर्णा, तत्रापि श्यामवर्णेत्यर्थः वाचनान्तरेण-वरकमलकोमलाङ्गीत्यनवद्यमेव । फुल्लं-विकसितं, यदुत्पलं-नीलोस्पलादि तस्य यो गन्धस्तद्वनिःश्वासो गन्धसाधायस्याः सा तथा सुरभिनिःश्वासेत्यर्थः, पाठान्तरेण-'पउमुप्पलुप्पलगंधनीसास 'त्ति-तत्र पद्म-शतपत्रादि गन्धद्रव्यविशेषो वा, उत्पलं-नीलोत्पलमित्यादि, उत्पलकुष्ठं च-गन्धद्रव्यविशेष इति; 'विदेहरायवरकन्न'ति-विदेहा-मिथिलानगरीजनपदस्तस्या राजा कुम्भकस्तस्य वरकन्या या सा तथा 'उक्किट्ठा उकिट्ठसरीर 'त्ति-रूपादिभिरुत्कृष्टा, किमुक्तं भवति ?,-उत्कृष्टशरीरेति, 'देसूणवाससयजाय'त्ति-देशोनं वर्षशतं जाताया यस्याः सा तथा, 'मोहणघरयं 'ति-सम्मोहोत्पादकं गृहं रतिगृहं वा, 'गम्भघरए 'ति-मोहनगृहस्य गर्भभूतानि वासभवनानीति केचित् , 'जालघरगं'ति-दादिमयजालकप्रायकुड्यं यत्र मध्यव्यवस्थितं वस्तु बहिःस्थितैदृश्यते, 'से जहा नामए अहिमडे इव'ति-स गन्धो यथेति दृष्टान्तोपन्यासे यादृश इत्यर्थः, नामए इत्यलङ्कारे अहिमृते-मृत |||%ASHREEDS

Loading...

Page Navigation
1 ... 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440