Book Title: Fulchandra Shastri Abhinandan Granth
Author(s): Jyoti Prasad Jain, Kailashchandra Shastri
Publisher: Siddhantacharya Pt Fulchandra Shastri Abhinandan Granth Prakashan Samiti Varanasi

View full book text
Previous | Next

Page 633
________________ चरमशरीरी भगवान् बाहुबली अस्ति तावदस्मिन् देशे धन-धान्य समृद्धा बहुजनसंकुला धर्मतीथंस्वरूपा अयोध्यया नाम नगरी । पुराकाले तत्र भोगभूमिस्थितिप्रच्युतौ कर्मभूमिव्यवस्थाप्रवृत्ताणां च विश्वक्षत्रगणाग्रणीः नाभिराजोऽन्त्यो कुलकरोऽभवत् । तस्य जनताप्राणदायिनी परमसौभाग्यं भुंजन्ती सुमंगला मरुदेवी आसीत् । कालान्तरे श्री- ह्री-धृतिबुद्धि-कीर्तिलक्ष्म्यादि विविधाभिः देवीभिः परिवेष्टित जगद्धितकरं प्रथमतीर्थकरपदभाजं पुत्रं लेभे । अस्मिन्नेव भवेऽयं धर्मामृतं वर्षिष्यतीति स्वजनः सह इन्द्रेण स वृषभ इति नाम्ना आहूतः । अत्रान्तरे युवराजपदभाक् स भगवान् स्वपितृप्रेषितसर्वजनेभ्यः अस्यादिकर्मणां शिक्षां प्रदाय गृहस्थोचितवैवाहिककर्मणि तेन द्वे कन्ये परिगृहीते । तत्र ज्येष्ठा देवी यशस्वतीति नाम्ना कनिष्ठा देवी सुनन्देति नाम्ना ख्यातिं गते । अथ क्रमशः यशस्वी देवी पुत्राणां शतं कन्यामेकां च सुषुवे । तत्र ज्येष्ठः पुत्रः भरत इति नाम्ना कन्या ब्राह्मीति नाम्ना च ख्यातिं गतौ । तेन कारणेन देशोऽयं भारतवर्ष इति नाम्ना तथा पुरातनलिपिः ब्राह्मीति नाम्ना प्रसिद्धि गतौ । अस्मिन्नेवावसरे कनिष्ठा देवी बाहुबलीति नामकं पुत्रमेकं सुन्दरीति कन्यामेकां सुष । एवं स्वजनैः संवृतः स योगिराट् भगवान् स्वपितृदत्तसाम्राज्यपदं भुञ्जमानः प्रजारक्षणादिकर्मणि दत्तावधानः सुखेन कालमभवत् । अथान्येद्युः राजसभायां सिंहासनारूढं तं देव देवराट् साप्सराः सगन्धर्वः उपासदत् । ततः भक्तिनिर्भर: स देवराट् सप्रयोजनं नृत्यं प्रायूयुजत् । स भगवान् तद् दृष्ट्वा अन्यतमसंसर्गात् शुद्धः स्फटिक इव सानुरागो जातः । एतत् दृष्ट्वा इन्द्रेण चिन्तितं देवोऽयं राज्यभोगात् कथं विरज्येदिति प्रक्षीणायुजं नीलांजनानामकं पात्रं तस्मिन् कर्मेण प्रायुक्त । रसभावलयोपेतं नटन्ती सा आयुर्दीपसंक्षये क्षणाददृश्यतां प्राप । तदा तस्मिन्नेव क्षणे रसभंगभयात् इन्द्रोऽन्यां देवीं संदधे । एतत् किमिति विचार्यमाणस्य निर्वेदभावनोपेतस्य भोगात् विरज्यतः तस्य भगवतः महती वैराग्यभावना जाता । तेन चिन्तितम् - अहो इदं जगत् विनश्वरम्, लक्ष्मीः तडिद्वल्लरीव चंचला, यौवनं वपुः आरोग्यं ऐश्वर्यं च चलाचलम् इति संसृतिस्वरूपं परिज्ञाय निर्वेदवैराग्यपरः भवन् स भगवान् लौकान्तिकदेवैरनुमन्यमानः क्रमादयोध्यायः नातिदूरे नात्यासन्नं सिद्धार्थनामकं वनं सम्प्राप्य व्युत्सृष्टान्तरंग - बहिरंगसंतः सन् पञ्चपुष्टिकं केशान् लुञ्चमानः वीतरागप्रवणां जिनमुद्रामुपाददे । अत्रायं विशेष: यत् जिनमुद्रास्वीकरणात् पूर्वं तेन भगवता सर्वपुत्रेषु साम्राज्यस्य विभागः कृत आसीत् । तत्र अयोध्यायाः भोक्ता भरतः जातः । तथा दक्षिणदेशस्थ पोदनपुरसाम्राज्यस्य भोक्ता बाहुबली अभवत् । I अनन्तरं यदा भगवान् चतुःघाति कर्माणि हत्वा केवलज्ञान विभूत्या सम्पन्नोऽभवत् तदैव भरतराज्यस्यायुधशालायां चक्ररत्नं समुत्पन्नम् । तेन भरतराजः भरतवर्षस्य षट्खण्डानि विजित्य यदायोध्या परावृतस्तदा चक्ररत्नं नगराद्वहिः अवरुद्ध ं दृष्ट्वा चिन्तितवान् - अहो केन कारणेनेदं चक्ररत्नं नगरे न प्रविशति । तदनन्तरं समुचित - कारणं ज्ञात्वा मन्त्रिभिः निवेदितम् - भो स्वामिन् ! इदानीं यावत् तव बन्धुभिः तवाज्ञा नैव स्वीकृता अतः इदं चक्ररत्नं नगरे न प्रविशति । एतत् रहस्यं ज्ञात्वा तेन चकवर्तिनाज्ञापत्रं दत्वा स्वबन्धूनां समीपे दूताः प्रेषिताः । अन्ये सर्वे बान्धवः आज्ञापत्रं दृष्ट्वा परमनिर्विण्णाः सन्तः भगवत ऋषभदेवस्य समीपे गत्वा जिनदीक्षामादाय मुक्तिमार्गे रताः जाताः । केवलं बाहुबली तं दृष्ट्वा विचारयति यदहं मम पित्रा दत्तं राज्यं भुञ्जामि, नात्र भरतराजस्य Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720