________________
चरमशरीरी भगवान् बाहुबली
अस्ति तावदस्मिन् देशे धन-धान्य समृद्धा बहुजनसंकुला धर्मतीथंस्वरूपा अयोध्यया नाम नगरी । पुराकाले तत्र भोगभूमिस्थितिप्रच्युतौ कर्मभूमिव्यवस्थाप्रवृत्ताणां च विश्वक्षत्रगणाग्रणीः नाभिराजोऽन्त्यो कुलकरोऽभवत् ।
तस्य जनताप्राणदायिनी परमसौभाग्यं भुंजन्ती सुमंगला मरुदेवी आसीत् । कालान्तरे श्री- ह्री-धृतिबुद्धि-कीर्तिलक्ष्म्यादि विविधाभिः देवीभिः परिवेष्टित जगद्धितकरं प्रथमतीर्थकरपदभाजं पुत्रं लेभे । अस्मिन्नेव भवेऽयं धर्मामृतं वर्षिष्यतीति स्वजनः सह इन्द्रेण स वृषभ इति नाम्ना आहूतः ।
अत्रान्तरे युवराजपदभाक् स भगवान् स्वपितृप्रेषितसर्वजनेभ्यः अस्यादिकर्मणां शिक्षां प्रदाय गृहस्थोचितवैवाहिककर्मणि तेन द्वे कन्ये परिगृहीते । तत्र ज्येष्ठा देवी यशस्वतीति नाम्ना कनिष्ठा देवी सुनन्देति नाम्ना ख्यातिं गते ।
अथ क्रमशः यशस्वी देवी पुत्राणां शतं कन्यामेकां च सुषुवे । तत्र ज्येष्ठः पुत्रः भरत इति नाम्ना कन्या ब्राह्मीति नाम्ना च ख्यातिं गतौ । तेन कारणेन देशोऽयं भारतवर्ष इति नाम्ना तथा पुरातनलिपिः ब्राह्मीति नाम्ना प्रसिद्धि गतौ । अस्मिन्नेवावसरे कनिष्ठा देवी बाहुबलीति नामकं पुत्रमेकं सुन्दरीति कन्यामेकां सुष । एवं स्वजनैः संवृतः स योगिराट् भगवान् स्वपितृदत्तसाम्राज्यपदं भुञ्जमानः प्रजारक्षणादिकर्मणि दत्तावधानः सुखेन कालमभवत् ।
अथान्येद्युः राजसभायां सिंहासनारूढं तं देव देवराट् साप्सराः सगन्धर्वः उपासदत् । ततः भक्तिनिर्भर: स देवराट् सप्रयोजनं नृत्यं प्रायूयुजत् । स भगवान् तद् दृष्ट्वा अन्यतमसंसर्गात् शुद्धः स्फटिक इव सानुरागो जातः । एतत् दृष्ट्वा इन्द्रेण चिन्तितं देवोऽयं राज्यभोगात् कथं विरज्येदिति प्रक्षीणायुजं नीलांजनानामकं पात्रं तस्मिन् कर्मेण प्रायुक्त । रसभावलयोपेतं नटन्ती सा आयुर्दीपसंक्षये क्षणाददृश्यतां प्राप । तदा तस्मिन्नेव क्षणे रसभंगभयात् इन्द्रोऽन्यां देवीं संदधे । एतत् किमिति विचार्यमाणस्य निर्वेदभावनोपेतस्य भोगात् विरज्यतः तस्य भगवतः महती वैराग्यभावना जाता । तेन चिन्तितम् - अहो इदं जगत् विनश्वरम्, लक्ष्मीः तडिद्वल्लरीव चंचला, यौवनं वपुः आरोग्यं ऐश्वर्यं च चलाचलम् इति संसृतिस्वरूपं परिज्ञाय निर्वेदवैराग्यपरः भवन् स भगवान् लौकान्तिकदेवैरनुमन्यमानः क्रमादयोध्यायः नातिदूरे नात्यासन्नं सिद्धार्थनामकं वनं सम्प्राप्य व्युत्सृष्टान्तरंग - बहिरंगसंतः सन् पञ्चपुष्टिकं केशान् लुञ्चमानः वीतरागप्रवणां जिनमुद्रामुपाददे । अत्रायं विशेष: यत् जिनमुद्रास्वीकरणात् पूर्वं तेन भगवता सर्वपुत्रेषु साम्राज्यस्य विभागः कृत आसीत् । तत्र अयोध्यायाः भोक्ता भरतः जातः । तथा दक्षिणदेशस्थ पोदनपुरसाम्राज्यस्य भोक्ता बाहुबली अभवत् ।
I
अनन्तरं यदा भगवान् चतुःघाति कर्माणि हत्वा केवलज्ञान विभूत्या सम्पन्नोऽभवत् तदैव भरतराज्यस्यायुधशालायां चक्ररत्नं समुत्पन्नम् । तेन भरतराजः भरतवर्षस्य षट्खण्डानि विजित्य यदायोध्या परावृतस्तदा चक्ररत्नं नगराद्वहिः अवरुद्ध ं दृष्ट्वा चिन्तितवान् - अहो केन कारणेनेदं चक्ररत्नं नगरे न प्रविशति । तदनन्तरं समुचित - कारणं ज्ञात्वा मन्त्रिभिः निवेदितम् - भो स्वामिन् ! इदानीं यावत् तव बन्धुभिः तवाज्ञा नैव स्वीकृता अतः इदं चक्ररत्नं नगरे न प्रविशति । एतत् रहस्यं ज्ञात्वा तेन चकवर्तिनाज्ञापत्रं दत्वा स्वबन्धूनां समीपे दूताः प्रेषिताः । अन्ये सर्वे बान्धवः आज्ञापत्रं दृष्ट्वा परमनिर्विण्णाः सन्तः भगवत ऋषभदेवस्य समीपे गत्वा जिनदीक्षामादाय मुक्तिमार्गे रताः जाताः । केवलं बाहुबली तं दृष्ट्वा विचारयति यदहं मम पित्रा दत्तं राज्यं भुञ्जामि, नात्र भरतराजस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org