________________
चतुर्थं खण्ड : ५९७
हस्तक्षेपं योग्यः । अतः आज्ञापत्रं अस्वीकुर्वता तेन दूतमुद्दिश्य प्रोक्तम् - गच्छ त्वं स्वस्वामिनं कथय कः कस्य आज्ञाकारी भवितुमर्हः ? इत्यस्य निर्णयो युद्धाभूमावेव भविष्यति । ततः दूतेनागत्यं यथा जातं निवेदितम् । एतत् श्रुत्वा भरतराजः क्रुद्धः भवत् युद्धाय सन्नद्धो जातः । तदनन्तरं पोदनपुरबहिर्भागे युद्धोचितरणभूमी उभयोः सैन्ययोः सम्मेलनं यदा जातं तदोभयपक्षवर्तिभिः मन्त्रिभिरेकत्रीभूय विचारितम् - एतौ चरमशरीरौ युद्धेन नानयोः काचित् क्षतिः भविष्यति । एतेन युद्धरतजनानामेव संक्षयः स्यादिति निश्चित्य तैः तयोः मात्रोरनुमति लब्ध्वा धम्यं युद्ध घोषितं कथितं च जनसंहारकारिणाऽकारणरणेनालम् । एतेन महानधर्मः गरीयान् यशोवधश्च स्यात् । इयं बलपरीक्षाऽन्यथाप्युपपद्यते । अतः युवयोरेव मध्ये जलयुद्ध ं दृष्टियुद्ध बाहुयुद्धमितित्रयात्मकं युद्ध ं भवतु । अनेनोपायेन यस्य विजयः स्यात् स उभाभ्यां स्वीकरणीय इति ।
ततः एवं प्रकारके त्रयात्मके युद्ध े सम्मतिं दत्वा तौ भ्रातरौ उभयप्रमाणीकृत्य प्रथम जलयुद्धरतौ जातौ । ततः कृच्छ्रादेवंप्रकारके त्रयात्मके युद्ध सम्मति, दत्वा तौ भ्रातरौ उभयपक्षवर्तिनः राज्ञः प्रमाणीकृत्य प्रथमं जलयुद्धरतौ जातौ । अस्मिन् युद्धे एकौऽपरस्योपरि स्वदोर्भ्यां अतिवेगेन जलं प्रक्षिपति । परं भरतेन मुक्तः जलौघः प्राशोः दौर्बल्यशालिनः मुखमप्राप्य आरात् समापतत् । एतेन अस्मिन् युद्धे भरतः पराजितो जातः । अनेनैव कारन भरतः दृष्टियुद्ध मुष्टियुद्ध े च पराजितो जातः ।
तदा क्रोधान्धेन निधीशिना चक्रिणा शत्रुक्षयकरं चक्रं स्मृतम् । स्मरणमात्रेण चक्ररत्नं समुपस्थितम् । स्वबान्धवाः चक्ररत्नेनावध्याः इति । नियमस्यावहेलनां कृत्वा बाहुबली स्वामिनः उपरि तत् प्रक्षिप्तः सन् तस्य प्रदक्षिणां कृत्वा तत्रैव तस्थौ । एतत् किं जातमिति विचार्यमाणः चक्री परं अनुशयं जगाम । तदा क्षीणप्रभं ज्येष्ठभ्रातारं दृष्ट्वा बाहुबली समुद्दिश्य अवदत् - भोबन्धो ! विपाककरोः साम्राज्यस्य कृते भवतैतत् किं कृतम् । अतः भवानेवेदं साम्राज्यं भुनक्तु । एतेन मम किमपि प्रयोजनं नास्ति । अहं तु तीर्थेश्वरस्य भगवतः समीपे गत्वा मोक्षमार्गरतो भवामि । ततः स स्वनन्दने महाबलिनि निक्षिप्तपोदनपुरराज्यधिगः तीर्थेश्वरस्य गुरो: परमाराधयन् जिनदीमुपाददे । तदनन्तरं जिनागमाध्ययनपरायणः सः गुरोरनुमति सम्प्राप्यैकविहारी भूत्सा आवर्ष प्रतिमायोगमातस्थे । तदवस्थायां तस्य शरीरं व्याप्तकीट-पतंगाभिः माधवीलताभिः निःसर्पत्सर्पः वाल्मीकैश्च व्याप्तं जातम् । वर्षान्ते यस्मिन्नेव क्षणे चक्रवर्तिना भरतेन तस्य महती पूजाऽरब्धा तस्मिन्नेव क्षणे स भगवान् बाहुबली चतुःघातिकर्माणि हत्वा केवलं ज्ञानविभूत्या सम्पन्नोऽभवत् । ततः स भगवान् तीर्थेश्वरवृषभेनाधिष्ठितं कैलाशमचलं सम्प्राप्य क्रमेण समस्तकर्माणि हत्वा च मोक्षलक्ष्म्यधिष्ठितो जातः ।
Jain Education International
পেকক ক
For Private & Personal Use Only
www.jainelibrary.org