Book Title: Fulchandra Shastri Abhinandan Granth
Author(s): Jyoti Prasad Jain, Kailashchandra Shastri
Publisher: Siddhantacharya Pt Fulchandra Shastri Abhinandan Granth Prakashan Samiti Varanasi

View full book text
Previous | Next

Page 634
________________ चतुर्थं खण्ड : ५९७ हस्तक्षेपं योग्यः । अतः आज्ञापत्रं अस्वीकुर्वता तेन दूतमुद्दिश्य प्रोक्तम् - गच्छ त्वं स्वस्वामिनं कथय कः कस्य आज्ञाकारी भवितुमर्हः ? इत्यस्य निर्णयो युद्धाभूमावेव भविष्यति । ततः दूतेनागत्यं यथा जातं निवेदितम् । एतत् श्रुत्वा भरतराजः क्रुद्धः भवत् युद्धाय सन्नद्धो जातः । तदनन्तरं पोदनपुरबहिर्भागे युद्धोचितरणभूमी उभयोः सैन्ययोः सम्मेलनं यदा जातं तदोभयपक्षवर्तिभिः मन्त्रिभिरेकत्रीभूय विचारितम् - एतौ चरमशरीरौ युद्धेन नानयोः काचित् क्षतिः भविष्यति । एतेन युद्धरतजनानामेव संक्षयः स्यादिति निश्चित्य तैः तयोः मात्रोरनुमति लब्ध्वा धम्यं युद्ध घोषितं कथितं च जनसंहारकारिणाऽकारणरणेनालम् । एतेन महानधर्मः गरीयान् यशोवधश्च स्यात् । इयं बलपरीक्षाऽन्यथाप्युपपद्यते । अतः युवयोरेव मध्ये जलयुद्ध ं दृष्टियुद्ध बाहुयुद्धमितित्रयात्मकं युद्ध ं भवतु । अनेनोपायेन यस्य विजयः स्यात् स उभाभ्यां स्वीकरणीय इति । ततः एवं प्रकारके त्रयात्मके युद्ध े सम्मतिं दत्वा तौ भ्रातरौ उभयप्रमाणीकृत्य प्रथम जलयुद्धरतौ जातौ । ततः कृच्छ्रादेवंप्रकारके त्रयात्मके युद्ध सम्मति, दत्वा तौ भ्रातरौ उभयपक्षवर्तिनः राज्ञः प्रमाणीकृत्य प्रथमं जलयुद्धरतौ जातौ । अस्मिन् युद्धे एकौऽपरस्योपरि स्वदोर्भ्यां अतिवेगेन जलं प्रक्षिपति । परं भरतेन मुक्तः जलौघः प्राशोः दौर्बल्यशालिनः मुखमप्राप्य आरात् समापतत् । एतेन अस्मिन् युद्धे भरतः पराजितो जातः । अनेनैव कारन भरतः दृष्टियुद्ध मुष्टियुद्ध े च पराजितो जातः । तदा क्रोधान्धेन निधीशिना चक्रिणा शत्रुक्षयकरं चक्रं स्मृतम् । स्मरणमात्रेण चक्ररत्नं समुपस्थितम् । स्वबान्धवाः चक्ररत्नेनावध्याः इति । नियमस्यावहेलनां कृत्वा बाहुबली स्वामिनः उपरि तत् प्रक्षिप्तः सन् तस्य प्रदक्षिणां कृत्वा तत्रैव तस्थौ । एतत् किं जातमिति विचार्यमाणः चक्री परं अनुशयं जगाम । तदा क्षीणप्रभं ज्येष्ठभ्रातारं दृष्ट्वा बाहुबली समुद्दिश्य अवदत् - भोबन्धो ! विपाककरोः साम्राज्यस्य कृते भवतैतत् किं कृतम् । अतः भवानेवेदं साम्राज्यं भुनक्तु । एतेन मम किमपि प्रयोजनं नास्ति । अहं तु तीर्थेश्वरस्य भगवतः समीपे गत्वा मोक्षमार्गरतो भवामि । ततः स स्वनन्दने महाबलिनि निक्षिप्तपोदनपुरराज्यधिगः तीर्थेश्वरस्य गुरो: परमाराधयन् जिनदीमुपाददे । तदनन्तरं जिनागमाध्ययनपरायणः सः गुरोरनुमति सम्प्राप्यैकविहारी भूत्सा आवर्ष प्रतिमायोगमातस्थे । तदवस्थायां तस्य शरीरं व्याप्तकीट-पतंगाभिः माधवीलताभिः निःसर्पत्सर्पः वाल्मीकैश्च व्याप्तं जातम् । वर्षान्ते यस्मिन्नेव क्षणे चक्रवर्तिना भरतेन तस्य महती पूजाऽरब्धा तस्मिन्नेव क्षणे स भगवान् बाहुबली चतुःघातिकर्माणि हत्वा केवलं ज्ञानविभूत्या सम्पन्नोऽभवत् । ततः स भगवान् तीर्थेश्वरवृषभेनाधिष्ठितं कैलाशमचलं सम्प्राप्य क्रमेण समस्तकर्माणि हत्वा च मोक्षलक्ष्म्यधिष्ठितो जातः । Jain Education International পেকক ক For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720