________________
[है.१.४.५२. प्रथमः सर्गः ।
११९ ५ सय ६ व(म?)लय ७ हिमवद्भ्यो ८ द्रिभ्यश्च कुलाचलेभ्यश्च सकाशात्सम्यक्पालनया भूभारस्यात्मनि निक्षेपागुरं भूभारं नयत्यात्मानं प्रापयति यस्तस्मिन्धूनियां सकलभूभारधर इत्यर्थः । अष्टभिर्दिग्गजैः कुलाचलैश्च भूर्धियत इति कविरूढिः । अथ च यो धूर्नीः कार्यप्राग्भारकरणक्षमः स्यात्तस्मिन्सर्वोप्यनुकूल: स्यादिति ॥ नियाम् । इत्यत्र "निय आम्" [५] इत्याम् ॥
अष्टाभ्यः । अष्टभ्यः । अस्यष्टाः । अत्यष्टानः । इत्यत्र “वाष्टन आः स्यादौ"[५२] इति वा-आकारः ॥
अष्टावष्ट तथात्यष्टावस्य भावान्विजानतः ।
की.त्यष्टौ कृताःक्ष्मांशा दिशोष्टाष्टौ नगाः सिताः॥१९६॥ १९६. अस्य राक्ष: कीर्त्या सिताः श्वेताः कृताः । क इत्याह । अष्टावतिक्रान्ता अत्यष्टौ नवेन्द्रद्वीपे १ कशेरुमत् २ ताम्रपर्ण ३ गभस्तिमन् ४ नागट्ठीप ५ सौम्य ६ गन्धर्व ७ वरुण ८ कुर्मारीद्वीपाख्याः ९क्ष्मांशा: पृथ्वीखण्डानि । तथाष्टावैन्यानेयीयाम्यानैर्ऋतीवारुणीवायव्याकौबेशान्यो दिशः । तथाष्टौ नगाः कुलाचलाः । यतोष्टौ तथाष्ट तथात्यष्टौ नव । सर्वसंख्यया पञ्चविंशतिं भावांस्तत्त्वानि विजानतो वेदितुः । सांख्यमते हि पञ्चविंशतिः पदार्था वर्ण्यन्ते । तथाहि सत्वरजस्तमसां साम्यावस्था प्रकृति: १ तदुतं महत्तत्त्वं २ तस्मादहंकारः .३ तस्माच स्पर्शन ४ रसन ५ घ्राण ६ चक्षुः ७ श्रोत्र ८ नामानि पञ्च बुद्धीन्द्रियाणि । पायु ९ उपस्थ १० वचः ११ पाणि १२ पादा१३ ख्यानि पञ्च कर्मेन्द्रियाणि । तथा मनः १४ । तथा रूप १५ रस
१ एफ. श्च स. २ ए °ति रू'. ३ एफ अत्यष्टानः । . ४ ए सी डी °ति आ°. ५ सी डी प १ सकेरु. ६ बी मारदी. ७ए एफ नैकती. ८ सी डी एफ शति भा'. ९ सी डी एफ °तिप. १० सी डी णि म.